________________
सभाष्यतस्वार्थाधिगमसूत्रेषु
॥ तन्निसर्गादधिगमाद्वा ॥ ३ ॥
तदेतत्सम्यग्दर्शनं द्विविधं भवति । निसर्गसम्यग्दर्शनमधिगसम्यग्दर्शनं च । निसर्गादधिगमात्पद्यत इति द्विहेतुकं द्विविधम् । निसर्गः परिणामः स्वभावः अपरोपदेश इत्यनर्थान्तरम् । ज्ञानदर्शनोपयोगलक्षणो जीव इति वक्ष्यते । तस्यानादौ संसारे परिभ्रमतः कर्मत एव कर्मणः : स्वकृतस्य बन्धनिकाचनोदय निर्जरापेक्षं नारकतियग्योनिमनुष्यामरभवग्रहणेषु विविधं पुण्यपापफलमनुभवतो ज्ञान
१ आत्मनस्तीर्थकराद्युपदेशदानमन्तरेण स्वत एव जन्तोर्यत् कर्मोपशमादिभ्यो जायते तन्निसर्गसम्यग्दर्शनम् ।
२ यत् तीर्थकराद्युपदेशे सति बाह्यनिमित्तसव्यपेक्षमुपशमादिभ्यो जायते तदार्धगमसम्यग्दर्शनम् ।
३ अनर्थान्तरम्-पर्यायः ।
४ अ. २ सू. १, २, ३, ४,
६, ७, ८. .
५ बन्धो ( अ. ८ सू. ३) नाम एकक्षेत्रावस्थितानां कर्मयोग्यस्कन्धानां ( स्कन्धः - स्कन्दन्ति शुष्यन्ति क्षीयन्ते च पुष्यन्ते पुद्गलानां चटनेन विचटनेन चेति स्कन्धाः ) रागद्वेषस्नेहावलीढसकलात्मप्रदेशेष्वाहारपुद्गलानामिव ( पूरणगलनधर्माण: पुद्गलाः ) परिणामकः सम्बन्धः । निकाचना तु स्पृष्टानन्तरभाविनी बद्धस्य कर्मणः सकलकरणायोग्यतावस्था | बद्धं नाम कर्मात्मप्रदेशैः सह श्लिष्टं यथा सूचयः कलापीकृता: परस्परेण बद्धाः कथ्यन्ते । ता एवानौ प्रक्षिप्त । स्ताडिताः समभिव्यज्यमानान्तराः स्पष्टा इति व्यपदिश्यन्ते ता एव पुनः प्रताप्य यदा घनेन ताडिताः प्रणष्टस्वविभागा एकपिण्डतामितास्तदा निकाचिता इति व्यपदेशमनुवते । एवं कर्माप्यात्मप्रदेशेषु योजन यम् । तस्यैवं निकाचितस्य प्रकृत्यादि ( ८-४ ) बन्धरूपेणावस्थितस्योदयावलिकाप्रविष्टस्य ( आवलिका—असंख्येयसमयसघातात्मकः कालविशेषः । तासु श्रेणिषु प्रविष्टा व्यवस्थिता ) प्रतिक्षणं यो विकानुभवः स उदयः । उदयानुभवसमनन्तरमेवापेत स्नेहलेशं पारशटत्प्रतिसमयं कर्म निर्जराव्यपदेशमङ्गीकरोति ।
६ उत्पत्तिस्थानम् । ७ प्रादुर्भावः ।
ܕ܆