SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । ॥ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥११॥ १ सम्यग्दर्शनं २ सम्यग्ज्ञानं ३ सम्यक्चारित्रमित्येष त्रिविधो मोक्षमार्गः । तं पुरस्ताल्लक्षणतो विधानतश्च विस्तरेणोपदेक्ष्यामः । शास्त्रानुपूर्वी विन्यासार्थ तूदेशमात्रमिदमुच्यते । एतानि च समस्तानि मोक्षसाधनानि । एकतराभावेऽप्यसाधनानीत्यतस्त्रयाणां ग्रहणम् । एषां च पूर्वलाभे भजनीयमुत्तरम् । उत्तरलाभे तु नियतः पूर्वलाभः। तत्र सम्यगिति प्रशंसाओं निपातः समश्चतेर्वा भावः । दर्शनमिति । दृशेरव्यभिचारिणी सन्द्रियानिन्द्रियार्थप्राप्तिरेतत्सम्यग्दर्शनम् । प्रशस्तं दर्शनं सम्यग्दर्शनम् । संगतं वा दर्शनं सम्यग्दर्शनम् । एवं ज्ञानचारित्रयोरपि ॥१॥ ॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ १॥२॥ तत्त्वानामर्थानां श्रद्धानं तत्त्वेन वार्थानां श्रद्धानं तत्त्वार्थश्रद्धानम् , तत् सम्यग्दर्शनम् । तत्त्वेन भावतो निश्चितमित्यर्थः । तत्त्वानि जीवादीनि वैक्ष्यन्ते । त एव चार्थास्तेषां श्रद्धानं तेषु प्रत्ययावधारणम् । तदेवं प्रशैमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति ॥२॥ १ वस्तुमात्रसंकीर्तनमुद्देशः । २ सम्यग्ज्ञानशब्देऽपि सम्यक् शब्दः प्रशंसाओं निपातः समञ्चतेर्वा, ज्ञानमिति च भाव एव, एवं चारित्रमपि । ३ अ. १ सू. ४, ___४ प्रशमः-सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशाद् दोषाणामुपशमः । इन्द्रियार्थपरिभोगनिवृत्तिर्वा । संवेग:-संसारभीतिः । निर्वेदः - विषयानभिष्वङ्गः । अनु. कम्पा-निरुपधिपरदुःखप्रहाणेच्छा । आस्तिक्यम्-अस्ति आत्मादिपदार्थजातम् इत्येषा मतिर्यस्य स आस्तिकः । तस्य भाव आस्तिक्यम् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy