________________
१४९
सप्तमोऽध्यायः। तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वतिचारस्थानेषु अप्रमादो न्याय इति ॥ ३२॥
अत्राह । उक्तानि व्रतानि वतिनश्च । अथ दानं किमिति । अत्रोच्यते
अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३३ ॥
आत्मपरानुग्रहार्थ स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसर्गो दानम् ॥ ३३ ॥
विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ३४ ॥
विधिविशेषाद द्रव्यविशेषाद् दातृविशेषात्पात्रविशेषाच्च तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच्च फलविशेषः । तत्र विधिविशेषो नाम देशकालसंपच्छ्रद्धासत्कारक्रमाः कल्पनीयत्वमित्येवमादिः ॥ द्रव्यविशेषोऽन्नादीनामेव सारजातिगुणोत्कर्षयोगः ॥ दातृविशेषः प्रतिग्रहीतर्यनसूया, त्यागेऽविषादः अपरिभाविता, दित्सतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसंधिता, दृष्टफलानपेक्षिता निरुपधत्वमनिदानत्वमिति ॥ पात्रविशेषः सम्यग्दर्शनज्ञानचारित्रतपः संपन्नता इति ॥ ३४ ॥
इति तत्त्वार्थधिगमेऽहत्प्रवचनसङ्ग्रहे
सप्तमोऽध्यायः समाप्तः॥७॥
१ विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाक् मूलोत्तरगुणसंपदुपेतः पात्रामिष्यते।