SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः। उक्त आस्रवः बन्धं वक्ष्यामः । तत्प्रसिद्धयर्थमिदमुच्यते । मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥१॥ ___मिथ्यादर्शनं आविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति । तत्र सम्यग्दर्शनाद्विपरीतं मिथ्यादर्शनम् । तद् द्विविधमभिगृहीतमनभिगृहीतं च । तत्राभ्युपेत्यासम्यग्दर्शनपरिग्रहोऽभिगृहीतमज्ञानिकादीनां त्रयाणां त्रिषष्टानां कुवादिशतानाम् । __ १ अज्ञानं अभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः त एव वादिनोऽज्ञानिकवादि. नः, अज्ञानमेव श्रेय इत्येवं प्रतिज्ञा इत्यर्थः, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति । एतभेदसंख्या चेयम् ' असियसयं किरियाणं अकिरियवाईण होइ चुलसीई । अन्नाणिय सत्तठी वेणइयाणं च बत्तीसा ॥१॥' ( क्रियावादिनां अशीत्यधिकं शतं आक्रियावादिनां चतुरशीतिरज्ञानिनां सप्तषष्टिः वैनायकानां द्वात्रिंशत्॥१॥ इति) तत्राशीत्यधिकं शतं, क्रियावादिनां भवति, इदं चामुनोपायेनावगन्तव्यम् जीवाजीवाश्रवसंवरबन्धनिर्जरापुण्यापुण्यमोक्षाख्यान नवपदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ तयोरधो नित्यानित्यभेदौ तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्तव्याः-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्वायम्-विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया व्हस्वत्वदीर्घत्वे इव नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं नि' मित्यादि प्रतिपत्तुरिति, चतुर्थो नियतिवादिनः, नियतिश्च-पदार्थानामवश्यन्तया यद्यथा भवने प्रयोजककौति पञ्चमः स्वभाववादिनः । एवं स्वत अजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थः-इह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा व्हस्वत्वाद्यपेक्षो दीर्घत्वादिपरिच्छेदः. एवमेव चात्मनः स्तम्भकुम्भादीन् समीक्ष्य तन्यतिरिक्ते हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दशविकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिविपदार्थेन लब्धाः अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवेदिति । तथा अक्रियावादिनां तु चतुरशीतिर्द्रष्टव्या, एवं चेयं पुण्यापुण्यविवर्जितपदार्थ
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy