SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु १४४ पद्योत्तमव्रतसंपन्नश्चतुर्विधाहारं प्रत्याख्याय यावज्जीवं भावनानुप्रेक्षापरः स्मृतिसमाधिबहुलो मारणान्तिकीं संलेखनां जोषिता उत्तमार्थस्याराधको भवतीति॥ ___ एतानि दिग्वतादीनि शीलानि भवन्ति । 'निःशल्यो व्रती' इति वचनादुक्तं भवति व्रती नियतं सम्यग्दृष्टिरिति ॥१७॥ शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः __सम्यग्दृष्टेरतिचाराः॥१८॥ शङ्का काङ्क्षा विचिकित्सा अन्यदृष्टिप्रशंसा संस्तवः इत्येते पञ्च सम्यग्दृष्टेरतीचारा भवन्ति । अतिचारो व्यतिक्रमः स्खलनमित्यनान्तरम् ॥ अधिगतजीवाजीवादितत्त्वस्यापि भगवतः शासनं भावतोऽभिप्रपन्नस्यासंहार्यमतेः सम्यग्दृष्टेरहमोक्तेषु अत्यन्तसूक्ष्मेवतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु यः संदेहो भवति एवं स्यादेवं न स्यादिति सा शङ्का ॥ ऐहलौकिकपारलौकिकेषु विषयेष्वाशंसा काङ्क्षा । सोऽतिचारः सम्यग्दृष्टेः । कुतः । काङ्किता ह्यविचारितगुणदोषः समयमतिक्रामति ॥ विचिकित्सा नाम इदमप्यस्तीदमपीति मतिविप्लतिः ॥ अन्यदृष्टिरित्यर्हच्छासनव्यतिरिक्तां दृष्टिमाह । सा द्विविधा । अभिहीता अनभिगृहीता च । तद्युक्तानां क्रियावा १ (१) अशनं-सक्तुमद्गाक्षीरदध्यादि (२) पानं खजूरद्राक्षापानकोष्णपानकादि (३) स्वादिम-गुडचारुकुलिकाखण्डेक्षुशर्करादि । (४) स्वादिम-एलाफलकर्पूरलवङ्गपूगीफलनागरादि । २ अ. ७ सू. १३. ३ जिनवचनव्यतिरिक्ता दृष्टिः-अन्यदृष्टिः । असर्वज्ञप्रणीतवचनाभिरतिः । ४ अभिमुखं गृहीता । इदमेव तत्त्वमिति बुद्धवचनं सांख्यं कणादादिवचनं वा। ५ नैकाप्याभिमुख्येन गृहीता सर्वप्रवचनेष्वेव साधुदृष्टिरनभिगृहीतमिथ्यादृष्टिरित्यर्थः । सर्वमेव युक्त्युपपन्नमयुक्तिकं चासमतया मन्यते मौढ्यात् ।। ६ क्रिया कधीना न कर्ता विना क्रियायाः संभवः । इति क्रियामात्मसमवायिनी ये वदन्ति तच्छीलाः।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy