SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः । तद्व्यतिरिक्तोऽनर्थः । तदर्थो दण्डोऽनर्थदण्डः । तद्विरतिर्व्रतम् ॥ सामायिकं नामाभिगृह्य कालं सर्वसावद्ययोगनिक्षेपः ॥ पौषधोपवासो नाम पौषधे उपवासः पौषधोपवासः । पौषधं ः पर्वेत्यनर्थान्तरम् । सोऽष्टमीं चतुर्दशीं पञ्चदशीमन्यतमां वा तिथिमभिगृह्य चतुर्थीद्युपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालंकारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतमं संस्तारमा - स्तीर्य स्थानं वीरासननिषद्यानां वान्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति ।। उपभोगपरिभोगवतं नामाशनपानखाद्यस्वाद्यगन्धमाल्यादीनामाच्छादनप्रावरणालंकारशयनासन गृहयानवाहनादीनां च बहुसावद्यानां वर्जनम् । अल्पसावद्यानामपि परिमाणकरण - मिति || अतिथिसंविभागो नाम न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमोपेतं परयात्मानुग्रहबुद्धया संयतेभ्यो दानमिति ॥ १६ ॥ किं चान्यदिति । मारणान्तिकीं संलखनां जोषिता ॥१७॥ १४३ कालसंहनन दौर्बल्योपसर्गदोषाद्धर्मावश्यकपरिहाणि वाभितो ज्ञात्वावमौदर्यचतुर्थषष्ठाष्टमभक्तादिभिरात्मानं संलिख्य संयमं प्रति १ पोषधशब्दः पर्ववाचकः । पोषं धत्ते पुष्णाति वा धर्मानिति निरुक्तात् । २ पृथग्जनस्यानियतानि भक्तानि । मुमुक्षूणां सकृद् भोजनम् । मध्यमजनस्य भक्तद्वयम् । तत्र मध्यमां प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना । अतीतेऽहनि भुक्त्वा प्रत्याख्यानमित्येको भोजनकालः । द्वितीयेऽहनि भक्तद्वयच्छेदः । तृतीयेऽहनि चतुर्थ - भक्तकाले भुक्त इति चतुर्थभक्तमुच्यते । एक उपवासः । आदिग्रहणात् पूर्वगणनयैव षष्ठाष्टमादि समस्ततपोविकल्पग्रहणम् । ३ निषद्या - समस्फिग्निवेशनं पर्यंतबन्धादि । ४ मर्यादाकरणम् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy