________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १४२
मूर्छा परिग्रहः ॥ १२॥ चेतनावत्स्वचेतनेषु च बाह्याभ्यन्तरेषु द्रव्येषु मूर्छा परिग्रहः। इच्छा प्रार्थना कामोऽभिलाषः कांक्षा गार्थ मूर्छत्यनान्तरम् ॥१२॥ अत्राह । गृह्णीमस्तावद् व्रतानि । अथ व्रती क इति । अत्रोच्यते
निःशल्यो व्रती ॥ १३ ॥ मायानिदानमिथ्यादर्शनशल्यैस्त्रिभिर्वियुक्तो निःशल्यो व्रती भवति । व्रतान्यस्य सन्तीति व्रती । तदेवं निःशल्यो व्रतवान् व्रती भवतीति ॥ १३॥
अगार्यनगारश्च ॥ १४ ॥ स एष व्रती द्विविधो भवति । अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥ १४॥ अत्राह । कोऽनयोः प्रतिविशेष इति । अत्रोच्यते
अणुव्रतोऽगारी ॥ १५ ॥ . अणून्यस्य व्रतानीत्यणुव्रतः । तदेवमणुव्रतधरःश्रावकोऽगारी वती भवति ॥ १५॥
किं चान्यत्दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरि
भोगातिथिसंविभागव्रतसंपन्नश्च ॥ १६ ॥
एभिश्च दिग्वतादिभिरुत्तरव्रतैः संपन्नोऽगारी व्रती भवति । तत्र दिव्रतं नाम तिर्यगूमधो वा दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रहः । तत्परतश्च सर्वभूतेष्वर्थतोऽनर्थतश्च सर्वसावद्ययोगनिक्षेपः॥देशव्रतं नामापवरकगृहग्रामसीमादिषु यथाशक्ति प्रविचाराय परिमाणाभिग्रहः । तत्परतश्च सर्वभूतेष्वर्थतोऽनयंतश्च सर्वसावद्ययोगनिक्षेपः॥अनर्थदण्डो नामोपभोगपरिभोगावस्यागारिणो व्रतिनोऽर्थः।