________________
सप्तमोऽध्यायः। अत्राह । उक्तं भवता हिंसादिभ्यो विरतिव्रतमिति तत्र का हिंसा नामति । अत्रोच्यते ।
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ ८ ॥
प्रमत्तो यः कायवाङ्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा । हिंसा मारणं प्राणातिपातः प्राणवधः देहान्तरसंक्रामणं प्राणव्यपरोपणमित्यनान्तरम् ॥ ८॥ अत्राह । अथानृतं किमिति । अत्रोच्यते
असदभिधानमनृतम् ॥९॥ असदिति सद्भावप्रतिषेधोऽर्थान्तरं गर्हा च ॥ तत्र सद्भावनतिषेधो नाम सद्भूतनिह्नवोऽभूतोद्भावनं च । तद्यथा-नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिह्नवः । श्यामाकतण्डुलमात्रोऽयमात्मा अङ्गठपर्वमात्रोऽयमात्मा आदित्यवर्णो निःक्रिय इत्येवमाद्यमभूतोद्भावनम् ॥ अर्थान्तरं यो गां ब्रवीत्यश्वमश्वं च गौरिति ॥ गति हिंसापारुष्यपैशुन्यादियुक्तं वचः सत्यमाप गर्हितमनृतमेव भवतीति ॥९॥ अत्राह अथ स्तेयं किमिति । अत्रोच्यते
अदत्तादानं स्तेयम् ॥१०॥ स्तेयबुद्धया परैरदत्तस्य परिगृहीतस्य तृणादेव्यजातस्यादानं स्तेयम् ॥१०॥ अत्राह । अथाब्रह्म किमिति । अत्रोच्यते
मैथुनमब्रह्म ॥ ११ ॥ स्त्रीपुंसयोमिथुनभावो मिथुनकर्म का मैथुनं तदब्रह्म ॥११॥ अत्राह । अथ परिग्रहः क इति । अत्रोच्यते१ अ. ७ सू. १