________________
सभाष्यतत्त्वार्याधिगमसूत्रेषु - १४० चारित्रतपोधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकम्पा दीनानुग्रह इत्यर्थः । तन्महामोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखादितेषु दीनकृपणानाथबालमोमुहद्धेषु सत्त्वेषु भावयेत् । तथा हि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति। माध्यस्थ्यमावनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनान्तरम् । अविनेया नाम मृत्पिण्डकाष्ठकुड्यभूता ग्रहणधारणविज्ञानोहापोहवियुक्ता महामोहाभिभूता दुष्टावग्राहिताश्च । तेषु माध्यस्थ्यं भावयेत् । न हि तत्र वक्तुहितोपदेशसाफल्यं भवति ॥ ६॥
किं चान्यत् । जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७ ॥
जगत्कायस्वभावौ च भावयेत् संवेगवैराग्यार्थम् । तत्र जगस्वभावो द्रव्याणामनाद्यादिमत्परिणामयुक्ताः प्रादुर्भावतिरोभावस्थित्यन्यतानुग्रहविनाशाः । कायस्वभावोऽनित्यता दुःखहेतुत्वं निःसारताऽशुचित्वमिति ॥ एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवति । तत्र संवेगो नाम संसारभीरुत्वमारम्भपरिग्रहेषु दोषदर्शनादरतिधर्मे बहुमानो धार्मिकेषु च धर्मश्रवणे धार्मिकदर्शने च मन:प्रसाद उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति ॥ वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपाधिष्वनभिष्वङ्गः इति ॥७॥
१ तर्षः-तृपिपासेति । स एवाग्निः परितापकारित्वात् । २ मोमुहाः-काहलाः।
३ वृद्धाः-सप्ततिसंवत्सरसंख्यामतीत्य वर्तमानाः । परिग्लानेन्द्रियाः परिपेलवस्मृतयः ।
४ औदासीन्यम् ।