SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १३९ सप्तमोऽध्यायः। कार्यानपेक्षो भवति । प्रेत्य चाशुभां गतिं प्राप्नोति लुब्धोऽयमिति च गार्हतो भवतीति परिग्रहाद्वयुपरमः श्रेयान् ॥ ४॥ किं चान्यत् दुःखमेव वा ॥ ५॥ दुःखमेव वा हिंसादिषु भावयेत् ॥ यथा ममाप्रियं दुःखमेवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान्॥ यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तीव्र दुःख भूतपूर्व भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद्वयुपरमः श्रेयान् ॥ यथा ममेष्टद्रव्यवियोगे दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति स्तेयाद्युपरमः श्रेयान् ॥ तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेव । स्यादेतत्स्पर्शनसुखमिति तच्च न । कुतः । व्याधिप्रतीकारत्वात्कण्डूपरिगतवच्चाब्रह्मव्याधिप्रतीकारत्वादसुखे ह्यस्मिन्सुखाभिमानो मूढस्य । तद्यथा-तीव्रया त्वक्छोणितमांसानुगतया कण्ड्वा परिगतात्मा काष्ठशकललोष्टशर्करानखशुक्तिभिर्विच्छिन्नगात्रो रुधिराः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तद्वन्मैथुनोपसेवीति मैथुनाब्युपरमः श्रेयान् ॥ तथा परिग्रहवानप्राप्तप्राप्तनष्टेषु काङ्कारक्षणशोकोद्भवं दुःखमेव प्राप्नोतीति परिग्रहाद्वयुपरमः श्रेयान् । इत्येवं भावयतो व्रतिनो व्रते स्थैर्य भवति ॥५॥ । किं चान्यत्मैत्रीप्रमोदकारुण्यमाध्यस्थानि सत्त्वगुणाधिकक्लिश्यमाना विनेयेषु ॥६॥ __ भावयेद्यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम्। क्षमयेऽहं सर्वसत्त्वान् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगो वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञान १ वर्णवादः श्लाघा ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy