SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रषु १३८ दित्यवग्रहावधारणं समानधार्मिकेभ्योऽवग्रहयाचनमनुज्ञापितपानभोजनमिति ॥ ब्रह्मचर्यस्य स्त्रीपशुषण्डकसंसक्तशयनासनवर्जनं रागसंयुक्तस्त्रीकथावर्जनं स्त्रीणां मनोहरेन्द्रियालोकनवर्जनं पूर्वरतानुस्मरणवर्जनं प्रणीतरसभोजन वर्जनामिति || आकिञ्चनस्य पञ्चानामिन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दानां मनोज्ञानां प्राप्तौ गाद्धर्घवर्जनममनोज्ञानां प्राप्तौ द्वेषवर्जनमिति ॥ ३ ॥ किं चान्यदिति । हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥ ४ ॥ हिंसादिषु पञ्चस्वास्त्रवेष्विहामुत्र चापायदर्शनमवद्यदर्शनं च भावयेत् । तद्यथा । हिंसायास्तावत् हिंस्रो हि नित्योद्वेजनीयो नित्यानुबद्धवैरश्व । इहैव वधबन्धपरिक्लेशादीन्प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् । तथानृतवाद्यश्रद्धेयो भवति । इहैव जिह्वाछेदादीन्प्रतिलभते मिथ्याभ्याख्यानदुःखितेभ्यश्व बद्धवैरेभ्यस्तदधिकान्दुःखहेतुन्यामोति प्रेत्य चाशुभां गतिं गर्हितश्च भवतीत्यनृतवचनाव्युपरमः श्रेयान् । तथा स्तेनः परद्रव्यहरणप्रसक्तमतिः सर्वस्योद्रेजनीयो भवतीति । इहैव चाभिघातवधवन्धन हस्तपादकर्णनासोत्तरौष्ठच्छेदन भेदन सर्वस्वहरणवध्ययातनमारणादीन्प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति स्तेयायुपरमः श्रेयान् ॥ तथाऽब्रह्मचारी विभ्रमोद्भान्तचित्तः विप्रकीर्णेन्द्रियो महान्धो गज इव निरङ्कुशः शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यानभिज्ञो न किंचिदकुशलं नारभते । परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदन वधबन्धनद्रव्यापहारादीन्प्रतिलभतेऽपायाप्रेत्य चाशुभां गतिं गर्हितश्च भवतीत्यब्रह्मणो व्युपरमः श्रेयानिति ॥ तथा परिग्रहवान् शकुनिरिव मांसपेशीहस्तोऽन्येषां क्रव्यादशकुनानामिव तस्रादीनां गयो भवति । अर्जनरक्षणंक्षयकृतांश्च दोषान्प्राप्नोति । न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेर्लोभाभिभूतत्वाच्च कार्या
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy