________________
१४५
सप्तमोऽध्यायः। दिनामक्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति । अत्राह । प्रशंसासंस्तवयोः कः प्रतिविशेष इति । अत्रोच्यते । ज्ञानदर्शनगुणप्रकर्षोद्भावनं भावतः प्रशंसा । संस्तवस्तु सोपंधं निरुपधं भूताभूतगुणवचन मिति ॥ १८ ॥ __ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १९ ॥
व्रतेषु पञ्चसु शीलेषु च सप्तसु पञ्च पश्चातिचारा भवन्ति यथाक्रममिति ऊर्ध्वं यद्वक्ष्यामः ॥ १९ ॥
तद्यथाबन्धवधविच्छेदातिभारारोपणान्नपाननिरोधाः ॥ २०॥
त्रसस्थावराणां जीवानां बन्धवधौ, त्वक्छेदः काष्ठादीनां, पुरुषहस्त्यश्वगोमाहषादीनां चातिभारारोपणं, तेषामेव चानपाननिरोधः, अहिंसाव्रतस्यातिचारा भवन्ति ॥ २० ॥
मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥ २१ ॥
__ एते पञ्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्योपदेशो नाम प्रमत्तवचनमयथार्थवचनोपदेशो विवादेष्वतिसेंधानोपदेश इत्येवमादिः॥ रहस्याभ्याख्यानं नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्तं हास्यक्रीडासङ्गादिभी रहस्येनाभिशं
१ विनयेन चरन्ति वैयिकाः । समवधृतलिङ्गाचारशास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रधानाः कायेन वाचा मनसा दानेन च चतुर्भिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सपर्या विदधति ।
२ सकपटम् । ३ निष्कपटम् । ४ सत्यासत्यगुणकथनम् । ५ कलहेऽन्यतरस्यातिसंधानोपायं वञ्चनोपायमुपदिशति ।