________________
सभाष्यतत्वार्थाधिगमसूत्रेषु १३० संरम्भः एवं समारम्भारम्भावपि ॥ तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् । तद्यथा-क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भः मायाकारितकायसंरम्भः लोभकारितकायसंरम्भः क्रोधानुमतकायसंरम्भः मानानुमतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं वाङ्मनोयोगाभ्यामपि वक्तव्यम् । तथा समारम्भारम्भौ । तदेवं जीवाधिकरणं समासेनेकशः षट्त्रिंशद्विकल्पं भवति । त्रिविधमप्यष्टोत्तरशतविकल्पं भवतीति ॥ . संरम्भः सकषायः परितापनया भवेत्समारम्भः।
- आरम्भः प्राणिवधस्त्रिविधो योगस्ततो ज्ञेयः ॥९॥ निवर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्दि त्रिभेदाः परम्॥१०॥
परमिति सूत्रक्रमप्रामाण्यादजीवाधिकरणमाह । तत्समासतचतुर्विधम् । तद्यथा-निर्वर्तना निक्षेपः संयोगो निसर्ग इति ॥ तत्र निर्वर्तनाधिकरणं द्विविधम्।मूलगुणनिर्वर्तनाधिकरणमुत्तरंगुणनिर्वर्तनाधिकरणं च । तत्र मूलगुणनिर्वर्तनाः पञ्च, शरीराणि वाङ्मनःमाणापानाश्च । उत्तरगुणनिर्वर्तना काष्ठपुस्तचित्रकर्मादीनि ॥ निक्षेपाधिकरणं चतुर्विधम् । तद्यथा-अप्रत्यवेक्षितनिक्षेपाधिकरणं दुःप्रमार्जित
१ औदारिकशरिरप्रायोग्यवर्गणाद्रव्यर्निर्मापितं यदौदारिकसंस्थानं तत्प्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणं भवति ।
२ तादृशस्यौदारिकस्याङ्गोपाङ्गकर्णवैधावयवसंस्थानादिकं तु मूलापेक्षयोत्तरगुणनिर्वर्तनाधिकरणं भवति ।
३ अप्रत्यवेक्षितभूप्रदेशे निक्षेप्य वस्त्रादिवस्तुनो निक्षेपकरणरूपत्वमप्रत्यवेक्षितनिक्षेपाधिकरणस्य लक्षणम् ।
४ दुष्पमार्जितभूप्रदेशे निक्षेप्य वस्त्रादिवस्तुनो दुष्प्रमार्जितरजोहरणेनाप्रमार्जितेन बा निक्षेपकरणरूपत्वं दुष्प्रमार्जितनिक्षेपाधिकरणस्य लक्षणम् ।