SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १३१ षष्ठोऽध्यायः । निक्षेपाधिकरणं सहसानिक्षेपाधिकरणमनाभोगनिक्षेपाधिकरणमिति । संयोगाधिकरणं द्विविधम् । भक्तपानसंयोजनाधिकरणमुपकरणसंयोजनाधिकरणं च । निसर्गाधिकरणं त्रिविधम् । कायनिसँगधिकरणं वाङ्निँसर्गाधिकरणं मनोनिसर्गाधिकरणमिति ॥ १० ॥ अत्राह । उक्तं भवता सकषायाकषाययोर्योगः साम्परायिकेर्यापथयोराँव इति साम्परायिकं चाष्टविधं वक्ष्यते । तत् किं सर्वस्याविशिष्ट आस्रव आहोस्वित्प्रतिविशेषोऽस्तीति । अत्रोच्यते । सत्यपि योगत्वाविशेषे प्रकृतिं कृतिं प्राप्यास्त्रवविशेषो भवति । तद्यथा १ अप्रमार्जिते दुष्प्रमार्जिते देशे निक्षेप्य वस्तुनो निक्षेपकरणरूपत्वं देशनिक्षेपाधिकरणस्य लक्षणम् । २ अनुपयोगपूर्वकप्रत्यवेक्षिते सुप्रमार्जिते वा देशे निक्षेप्य वस्तुनो निक्षेपकरणरूपत्वमनाभोगिकनिक्षेपाधिकरणस्य लक्षणम् । ३ संयोजनं मिश्रीकरणं । तच्च संयोजनाधिकरणं द्विविधम् । ४ निसर्ग उत्सर्गः त्याग इत्यर्थः । शस्त्रपाटनानिजलप्रवेशोद्बन्धनविषमयोगादिभिः शरीरस्य त्यागकरणरूपत्वं कायनिसर्गाधिकरणस्य लक्षणम् । ५ भाषात्वेनापादितवचनवर्गणापुद्गलानामुपदेशादिभिस्त्यागकरणरूपत्वं वानसर्गाधिकरणस्य लक्षणम् । ६ मनस्त्वेन परिणतमनोवर्गणाद्रव्याणां चिन्तनादिद्वारा त्यागकरण रूपत्वं मनोनिसर्गाधिकरणस्य लक्षणम् । ७ अ. ६ सू. ५. ८ अ. ६ सू. २६. 1
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy