________________
षष्ठोऽध्यायः । अधिकरणं जीवाजीवाः ॥ ८॥ आधिकरणं द्विविधम् । द्रव्याधिकरणं भावाधिकरणं च । तत्र द्रव्याधिकरणं छेदनभेदनादि शस्त्रं च दर्शविधम् । भावाधिकरणमष्टोत्तरशतविधम् । एतदुभयं जीवाधिकरणमजीवाधिकरणं च ।।८।। तत्रआद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतः
कषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ९॥
आद्यमिति सूत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । तत्समासतस्त्रिविधम् । संरम्भः समारम्भ आरम्भ इति । एतत्पुनरेकशः कायवामनोयोगविशेषात्त्रिाविधं भवति । तद्यथा--कायसंरम्भः वाक्संरम्भः मनःसंरम्भः कायसमारम्भः वाक्समारम्भः मनःसमारम्भः कायारम्भः वागारम्भः मनआरम्भ इति । एतदप्येकशः कृतकारितानुमतविशेषात्रिविधं भवति । तद्यथा-कृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसरम्भः कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः कृतमनःसंरम्भः कारितमनःसंरम्भः अनुमतमनः
१ छेदनदहनमारणोपघातस्नेहक्षाराम्लानुपयुक्तमनोवाकायलक्षणाधिकरणभेदात् । छेदनादीनि प्रसिद्धानि। अनुपयुक्तः सन्मनोवाक्कायादिना यां यां चेष्टां नियति तया तया कर्म बध्यत इत्येवं रूपत्वमनुपयुक्तमनोवाकायलक्षणाधिकरणस्य लक्षणम् ।
२ भावः तीवादिरूपात्मपरिणामः स एवाधिकरणं भावाधिकरणम् । अ. ६ सू. ९.
. ३ प्राणातिपातादिविषयकसंकल्पावेशरूपत्वं संरंभस्य लक्षणम् ।
४ प्राणातिपातादिविषयकसाधनसंनिपातजनितपरितापनादिरूपत्वं समारंभस्य लक्षणम् ।
५ प्राणातिपातादिरूपक्रियानिवृत्तिरूपत्वमारंभस्य लक्षणम्