________________
सभाष्यतत्त्वार्याधिगमसूत्रेषु -
शुभः पुण्यस्य ॥ ३॥ शुभो योगः पुण्यस्यास्रवो भवति ॥३॥
अशुभः पापस्य ॥ ४॥ तत्र सवेद्यादि पुण्यं वक्ष्यते शेष पापमिति ॥ ४ ॥ सकषायाकषाययोः साम्परायिके-पैथयोः ॥५॥
स एष त्रिविधोऽपि योगः सकषायाकषाययोः साम्परायिकेर्यापथयोरात्रवो भवति यथासङ्खयं यथासम्भवं च । सकषायस्य योगः साम्परायिकस्य अकषायस्येर्यापथस्यैवैकसमयस्थितेः ॥ ५ ॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः
पूर्वस्य भेदाः ॥६॥ पूर्वस्योत सूत्रक्रमप्रामाण्यात्साम्परायिकस्याह । साम्परायिकस्यास्रवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति । पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा' इत्येवमादयो वक्ष्यन्ते । चत्वारः क्रोधमानमायालोभा अनन्तानुबन्ध्यादयो वक्ष्यन्ते । पञ्च प्रमत्तस्यन्द्रियाणि । पञ्चविंशतिः
१ अ. ८ सू. २६.
२ सकाषायिकत्रिविधयोगकृतकर्मागमनरूपत्वं सांपरायिकास्रवस्य लक्षणम् । अथवा संसारपरिभ्रान्तिकारणकत्वे सति यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वम् ।
३ अकषायकृतत्वैकसमयस्थितिकत्वयोः सतोर्यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वं-ऐपिथिकासवस्य लक्षणम् ।
४ अ. ६ सू. ५. ५ अ. ७ सू. ८. ६ अ. ८ सू. १०. ७ अ. २ सू. २०.