________________
अथ षष्ठोऽध्यायः ।
अत्राह । उक्ता जीवाजीवाः । अथास्रवः क इत्यास्रव - प्रसिद्ध्यर्थमिदं प्रक्रम्यते
कायवाङ्मनःकर्म योगः ॥ १ ॥
कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष त्रिविधो योगो भवति । स एकेशो द्विविधः । शुभाशुभश्च । तत्राशुभो हिंसास्याब्रह्मादीनि कायिकः । सावद्यानृतपरुषपिशुनादीनि वाचिकः । अभिध्यायीपादेयसूर्यादीनि मानसः । अतो विपरीतः शुभ इति । १ । स आस्रवः ॥ २ ॥
स एष त्रिविधोऽपि योग आस्रवसंज्ञो भवति । शुभाशुभयोः कर्मणोरास्रवणादास्रवः । सरःसलिलीवाहिनिर्वाहिस्रोतोवत् ||२||
१ एकशः - प्रत्येकम् ।
२ अब्रह्म-मैथुनम् ।
३ आदिशब्दाद् दहनछेदनालेखनहास्यधावनप्रभृतिकर्मविशेषाः कायिको योगः । ४ आदिशब्दाद सत्यछलशठदंभादि ।
५ सत्त्वष्वभिद्रोहानुध्यानं— अभिध्या । ६ व्यापादः - स्वोपायोच्छादनारंभः । ७ ईर्ष्या - अक्षमा ।
८ असूया - क्रोधविशेषः ।
९ आदिग्रहणाद् अभिमानहर्षशोकदैन्यादि ।
१० अहिंसास्तेयब्रह्मचर्यादिकाययोगः । असावद्यादिवचनमागमविहितभाषणं च वाचिकयोगः । अनभिध्यादिधर्मशुक्लध्यानध्यायितेति मनोयोगः ।
११ आस्रवति प्रविशति कर्म येन आत्मनीति आस्रवः कर्मबन्धहेतुरिति भावः । १२ यथा तटाके स्रोतसां सलिलावाहनिर्वाहाभ्यां न कदाचिच्चिन्त्यमाना रिक्तता भवति एवमात्मनि कर्मदृष्टान्तयोजना । अतएव निरुद्धसलिलागमद्वारस्य तडा - गस्य रिक्तिः सुश्रद्धेया तथा संवृतकर्मणो जीवस्य ।