________________
पञ्चमोऽध्यायः।
कालश्चेत्येके ॥ ३८ ॥ एके त्वाचार्या ब्याचक्षते कालोऽपि द्रव्यमिति ॥ ३८ ॥
सोऽनन्तसमयः ॥ ३९ ॥ स चैष कालोऽनन्तसमयः। तत्रैक एव वर्तमानसमयः । अतीतानागतयोस्त्वानन्त्यम् ॥ ३९ ॥
अत्राह । उक्तं भवता 'गुणपर्यायवद्र्व्य म्' इति । तत्र के गुणा इति । अत्रोच्यते
द्रव्याश्रया निर्गुणा गुणाः ॥४०॥ द्रव्यमेषामाश्रय इति द्रव्याश्रयाः । नैषां गुणाः सन्तीति निर्गुणाः॥४०॥
अत्राह । उक्तं भवता 'बन्धे समाधिको पारिणामिकौ' इति तत्र कः परिणाम इति । अत्रोच्यते
तद्भावः परिणामः ॥४१॥ धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः॥४१॥
१ दिगम्बराः 'कालश्च' इति तत्त्वार्थ (५-३९) सूत्रेण व्याचक्षन्ते ।
२ एकस्य नयस्य भेदलक्षणस्य प्रतिपत्तारः तदुपयोगानन्यत्वादेके अनपेक्षितद्रव्यास्तिकनयदर्शनाः कालश्च द्रव्यान्तरं भवतीत्याचक्षते । .
३ अत्र टिप्पणकग्रन्ये दिगम्बराणां खण्डनम् । ४ अ. ५ सू. ३७.
५ सन्ति गुणाः किंतु द्रव्यादव्यतिरिच्यमानस्वरूपाः । तद्यदा द्रव्यं शुक्लाकारण परिणतं भवति तदा कृष्णाकारपरिणामो नास्तीति स्फुटं निर्गुणत्वमिति ।
६ अ. ५ सू. ३६.