________________
सभाध्यतत्त्वार्थाधिगमसूत्रेषु . १२२ स्निग्धस्य द्विगुणाद्यधिकस्निग्धेन । द्विगुणाद्यधिकस्निग्धस्य स्निग्धेन । रूक्षस्यापि द्विगुणाद्यधिकरूक्षेण । द्विगुणाद्यधिकरूक्षस्य रूक्षेण । एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति । अत्र तुशब्दो व्यावृत्तिविशेषणार्थः प्रतिषेधं व्यावर्तयति बन्धं च विशेषयति ॥
अत्राह । परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थितास्तेष्वाहास्विदव्यवस्थिता इति । अत्रोच्यते । अव्यवस्थिताः । कुतः । परिणामात् ॥ ३५॥
अत्राह । द्वयोरपि वध्यमानयोर्गुणवत्त्वे सति कथं परिणामो भवतीति उच्यते
बन्धे समाधिकौ पारिणामिकौ ॥ ३६ ॥
बन्धे सति समगुणस्य समगुणः परिणामको भवति । अधिकगुणो हीनस्यति ॥ ३६॥
अत्राह । उक्तं भवता 'द्रव्याणि जीवाश्च' इति । तत्किमुद्देशत एव द्रव्याणां प्रसिद्धिराहोस्विल्लक्षणतोऽपीति । अत्रोच्यते । लक्षणतोऽपि प्रसिद्धिः । तदुच्यते
__ गुणपर्यायवद् द्रव्यम् ॥ ३७॥
गुणान् लक्षणतो वक्ष्यामः । भावान्तरं संज्ञान्तरं च पर्यायः। तदुभयं यत्र विद्यते तद्रव्यम् । गुणपर्याया अस्य सन्त्यस्मिन्वा सन्तीति गुणपर्यायवत् ॥ ३७॥
१ बन्धः-संयोगः । २ अ. ५ सू. २. ३ अव्याप्त्यतिव्याप्त्यसम्भवदूषणत्रयरहितधर्मो लक्षणम् । ४ अ. ५ सू. ४०.
५ भावादन्यो भावान्तरम् । समभिरूढनयाभिप्रायेणेन्दनशकनपूर्दारणादयोऽर्थविशेषा रूपादयश्च भावान्तरा भावभेदाः संज्ञान्तराणां प्रवृत्ती निमित्तभूताः। संज्ञा न्तरं चेन्द्रशक्रपुरन्दररूपादि।