SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सभाष्यतस्वार्थाधिगमसूत्रेषु ११८ ङ्गात् । सस्वभावत्वे त्वेकान्तध्रौव्याभावस्तस्यैव तथाभवनादिति तत्तत्स्वभावतया विरोधाभावात्तथोपलब्धिसिद्धेः। तद्भ्रान्तत्वे प्रमाणाभावः। योगिज्ञानप्रमाणाभ्युपगमे सभ्रान्तस्तदवस्थाभेदः। इत्थं चैतत् अन्यथा न मनुष्यादेवत्वादीति । एवं यमादिपालनानर्थक्यम्। एवं च सति “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" "शौचसंतोषतपःस्वाध्यायश्वरप्रणिधानानि नियमाः" इति आगमवचनं वचनमात्रम् । एवमेकान्ताधौव्येऽपि सर्वथा तदभावापत्तेः तत्त्वतोऽहेतुकत्वमेवावस्थान्तरमिति सर्वदा तद्भावाभावप्रसङ्गः अहेतुकत्वाविशेषात् । न हेतुस्वभावतयोर्ध्व तद्भावः तत्स्वभावतयैकान्तेन ध्रौव्यसिद्धेः। यदा हि हेतोरेवासौ स्वभावो यत्तदनन्तरं तद्भावस्तदा ध्रुवोऽन्वयस्तस्यैव तथा भवनात्। एवं च तुलोनामावनामवद्धेतुफलयोर्युगपढ्ययोत्पादसिद्धिरन्यथा तत्तद्व्यतिरिक्तेतरविकल्पाभ्यामयोगात् । तन्न । मनुष्यादेदेवत्वमित्यायातं मार्गवैफल्यमागमस्येति । एवं सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाग् सम्यग्मार्गः सम्यगार्जवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिरिति वाग्वैयर्थ्यम्। एवं घटव्ययवत्या मृदः कपालोत्पादभावात् उत्पादव्ययध्रौव्ययुक्तं सदिति । एकान्तध्रौव्ये तत्तथैकस्वभावतयावस्थाभेदानुपपत्तेः । समानं पूर्वेण । एवमेतद्व्यवहारतः तथा मनुष्यादिस्थितिद्रव्यमधिकृत्य दर्शितम् । निश्चयतस्तु प्रतिसमयमुत्पादादिमत्तथाभेदसिद्धेः । अन्यथा तदयोगात् । यथाह - १ पातं. योगसूत्रम् २-३५. २ पातं. सू. २-३२. ३ अर्थशून्यमित्यर्थः।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy