SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ पश्चमोऽध्यायः । "सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥ १ ॥ नरकादिगतिविभेदो भेदः संसारमोक्षयोश्चैव । हिंसादिस्तद्धेतुः सम्यक्त्वादिश्च मुख्य इति ॥ २ ॥ उत्पादादियुते खलु वस्तुन्येतदुपपद्यते सर्वम् । तद्रहिते तदभावात् सर्वमपि न युज्यते नीत्या ॥ ३ ॥ निरुपादानो न भवत्युत्पादो नापि तादवस्थ्येऽस्य । तद्विक्रिययापि तथा त्रितययुतेऽस्मिन् भवत्येषः ॥ ४ ॥ सिद्धत्वेनोत्पादो व्ययोऽस्य संसारभावतो ज्ञेयः । जीवत्वेन धौव्यं त्रितययुतं सर्वमेवं तु ॥ ५ ॥ " तदित्थं उत्पादव्ययौ धौव्यं चैतत्रितययुक्तं सतो लक्षणम् । अथवा युक्तं समाहितं त्रिस्वभावं सत् । यदुत्पद्यते यद्वयेति यच्च ध्रुवं तत्सत् अतोऽन्यदसदिति ॥ ११९ अत्राह । गृह्णीमस्तावदेवंलक्षणं सदिति । इदं तु वाच्यं तत्कि नित्यमाहोस्विदनित्यमिति । अत्रोच्यते तद्भावाव्ययं नित्यम् ॥ ३० ॥ यत्सतो भावान्न व्येति न व्येष्यति तन्नित्यमिति ॥ ३० ॥ अर्पितानर्पितसिद्धेः ॥ ३१ ॥ सच्च त्रिविधमपि नित्यं च । उभे अपि अर्पितान र्पितसिद्धेः । अर्पितैव्यावहारिकमनर्पितव्यावहारिकं चेत्यर्थः । तच्च सच्चतुर्विधम् । 1 १ कारणशून्यः । २ अर्पितम् - उपनीतं वस्तु विवक्षितेन धर्मेण साक्षाद्वाचकेन शब्देनाभिहितं व्यवहारः प्रयोजनमस्येति व्यावहारिकं अर्पितं च तद् व्यावहारिकं चेत्यर्पि - तव्यावहारिकम् । एतदुक्तं भवति । किंचिद्वस्तु विशिष्टाभिधानार्पितं सद् व्यवहारं साधयति अपरमन र्पितमेव साक्षाद्वाचकेन शब्देन प्रतीयमानं सद् व्यवहाराय व्यामियत इत्यत आह-अनर्पितव्यावहारिकं चेत्यर्थः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy