SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ११३ . ११३ पञ्चमोऽध्यायः । अत्राह । अथ कालस्योपकारः क इति । अत्रीच्यतेवर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥२२॥ ___तद्यथा-सर्वभावानां वर्तना कालाश्रया वृत्तिः। वर्तना उत्पत्तिः स्थितिः प्रथमसमयाश्रया इत्यर्थः ॥ परिणामो द्विविधः । अनादिरादिमांश्च। तं परस्तावक्ष्यामः । क्रिया गतिः । सा त्रिविधा। प्रयोगगतिर्विसागतिमिश्रिंकेति ।। परत्वापरत्वे त्रिविधे प्रशंसाकृते क्षेत्रकृते कालकृते इति । तत्र प्रशंसाकृते परो धर्मः परं ज्ञानं अपरो धर्म अपरमज्ञानमिति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रकृष्टः परो भवति सनिकृष्टोऽपरः । कालकृते द्विरष्टवर्षाद्वर्षशतिकः परो भवति वर्षशतिकाव्दिरष्टवर्षोऽपरो भवति । तदेवं प्रशंसाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा वर्तनादीनि कालकृतानि कालस्योपकार इति ॥ २२ ॥ ___अत्राह उक्तं भवता शरीरादीनि एद्गलानामुपकार इति । पुद्गलानिति च तन्त्रान्तरीया जीवान्परिभाषन्ते । स्पर्शादिरहिताश्चान्ये तत्कथमेतदिति । अत्रोच्यते । एतदादिविप्रतिपत्तिप्रतिषेधार्थ विशेषवचनविवक्षया चेदमुच्यते ॥ १ अ. ५ सू. ४२. २ जीवपरिणामसंप्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया प्रयोगगतिः । ३ प्रयोगमन्तरेण केवलाजीवद्रव्यस्वपरिणामरूपा परमाण्वभ्रेन्द्रधनुःपरिवेषादिरूपा विचित्रसंस्थाना विस्रसागतिः । ४ प्रयोगविस्रसाभ्यामुभयपरिणामरूपत्वात् जीवप्रयोगसहचस्तिा चेतनद्रव्यपरिणामात् कुम्भस्तम्भादिविषया मिश्रिका गतिः । ५ अ. ५ सू. १९. ६ अत्र प्रस्तावे परोऽभिधत्ते-प्रतिपादितं भवता शरीरादयः सुखादयश्च पुद्गलानामुपकार इति । तन्त्रान्तरीयाश्च मायासूनवीयाः पुद्गला इत्यनेन शब्देन जीवान परिभाषन्ते पुद्गलशब्दं जीवेषु सङ्केतयन्ति व्यवहारसिध्यमिति । ननु च तेषां जीव १५ . . ...
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy