SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सभाभ्यतस्त्रार्थाधिगमसूत्रेषु स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥ स्पर्शः : रसः गन्धः वर्ण इत्येवंलक्षणा: पुद्गला भवन्ति । तत्र स्पर्शोऽष्टविधः कठिनो मुदुर्गुरुलघुः शीत उष्णः स्निग्धः रूक्ष इति । रसः पञ्चविधस्तिक्तः कटुः कषायोऽम्लो मधुर इति । गन्धो द्विविधः सुरभिरसुरभिश्च । वर्णः पञ्चविधः कृष्णो नीलो लोहितः पीतः शुक्ल इति ॥ २३ ॥ किं चान्यत्शब्दबन्धसौक्ष्म्य स्थौल्यसंस्थानभेदतमश्छायातपोद्योत ११४ वन्तश्च ॥ २४ ॥ तत्र शब्दः षड्विधः । ततो विततो घनः शुषिरी घेर्षो भीष एव नास्ति, कथं तद्विषयं पुद्गलध्वनिं परिभाषेरन्निति ? उच्यते - अस्त्यार्यसम्मतीयानां आत्मा, सौत्रान्तिकानां तु चित्ततद्युक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः, चित्तसन्ततौ वेदनासंज्ञा चेतनादिधर्मयुक्तायां चक्षुरादिसहितायां च चित्तेनान्योन्यानुविधानात् इत्येषा चित्ततद्युक्तानां धर्माणां सन्ततिरहङ्कारवस्तुत्वादात्मेत्युपचर्यते । तथा पुनः पुनर्गत्यादानात् पुद्गल इत्युपचर्यते, योगाचाराणां तु विज्ञानपरिणामः पुद्गलः । यथाह - 'आत्मधर्मोपचारो हि विविधो यः प्रवर्तते । विज्ञानपरिणामोऽसौ परिणामः स च त्रिधा' ॥ एवं तन्त्रान्तरीयैः पुद्गलो जीव उक्तः, त्वया पुनः शरीराद्युपकारिणः पुद्गला इत्युच्यते तदेतत्कथं विप्रतिषिद्धत्वात् इति प्रश्नयति ॥ नन्वनुपपन्नः संशयः पूर्वमुक्तमेव - 'रूपिणः पुद्गलाः ' (अ. ५ सू. ४.) इति न च रूप्यात्मा प्रतीत इति, उच्यते - रूपशब्देन तत्र मूर्ति - रुक्ता सा च मूर्तिरन्यैर सर्वगतद्रव्यपरिमाणमिष्यते, यथा मनः तच्च स्पर्शादिरहितं, एतन्निरासार्थं इदमवश्यं वक्तव्यम् भवति सूत्रं - स्पर्शादियुक्ता मूर्तिः, तथा चतुस्त्रिव्येकगुणानि पृथिव्यादीनि कणभुजेोक्तानि तत्प्रतिषेधार्थं चावश्यंतया विधेयं सर्वाण्येताि चतुर्गुणानीति । 1 १ ततो मृदङ्गपटहादिसमुद्भवः । २ विततो वीणात्रिसरिकादितन्त्रीप्रभवः । ३ घनः कांस्यभाजनकाष्ठशलाकादिजनितः । ४ सुषिरो वेणुकम्बुवंशविवराद्युद्भवः । ५ धर्षः ऋकचकष्ठादिसंघर्षप्रसूतः । ६ भाषा - व्यक्तवाग्भिर्वर्णपदवाक्याकारेण भाष्यत इति ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy