SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्वार्थाधिगमसूत्रेषु ११२ सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥ सुखोपग्रहो दुःखोपग्रहो जीवितोपग्रहो मरणोपग्रहश्चेति पुद्गलानामुपकारः । तद्यथा-इष्टाः स्पर्शरसगन्धवर्णशब्दाः सुखस्योपकारः । अनिष्टा दुःखस्य । स्नानाच्छादनानुलेपनभोजनादीनि विधिप्रयुक्तानि जीवितस्यानपवर्तनं चायुष्कस्य । विषशस्त्राग्न्यादीनि मरणस्यापवर्तनं चायुष्कस्य ॥ अत्राह । उपपन्नं तावदेतत्सोपक्रमाणामपवर्तनीयायुषाम् । अथानपवायुषां कथमिति । अत्रोच्यते । तेषामपि जीवितमरणोपग्रहः पुद्गलानामुपकारः। कथमिति चेत्तदुच्यते । कर्मणः स्थितिक्षयाभ्याम् । कर्म हि पौद्गलमिति । आहारश्च त्रिविधः सर्वेषामेवोपकुरुते । किं कारणम् । शरीरस्थित्युपचयबलवृद्धिप्रीत्यर्थ ह्याहार इति ॥ २० ॥ अत्राह । गृह्णीमस्तावद्धर्माधर्माकाशपुद्गला जीवद्रव्याणामुपकुर्वन्तीति । अथ जीवानां क उपकार इति । अत्रोच्यते ___ परस्परोपग्रहो जीवानाम् ॥ २१ ॥ परस्परस्य हिताहितोपदेशाभ्यामुपग्रहो जीवानामिति ॥२१॥ १ बाह्यद्रव्यसम्बन्धापेक्षसद्वेद्योदयात्संसार्यात्मनः प्रसादपरिणामः सुखम् । इष्टदारापत्यस्रगनुलेपनान्नपानादिद्रव्योपजानितामति विस्तरः । तदेव च सुखमुपग्रहोऽनु. ग्रहः पुद्गलानां निमित्ततया परिणतावात्मनः । एवं दुःखादिष्वपि योजनीयम् । असद्वेद्योदयादात्मपरिणामो बाह्यद्रव्यापेक्षः संक्लेशप्रायो दुःखम् । भवस्थितिनिमित्तायुर्द्रव्यसम्बन्धमाजः पुरुषस्य प्राणापानलक्षणक्रियाविशेषाद् व्युपरमो जीवितम् । तदशेषोपर. तिर्मरणम् । कथं मरणमात्मोपग्रह इति चेत्, निर्विण्णस्य पुरुषस्य तत्प्रियत्वात् विषादिद्रव्यसम्बन्धे सत्यायुषो यौगपद्येनोपभोगोदयात् । २ हितम्-उत्तरकाले वर्तमाने यत् क्षमं युक्तं न्याय्यं वा । तद्विपरीतमहितम् । हितप्रतिपादनेन अहितप्रतिषेधेन चोपग्रहं कुन्ति ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy