SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १११ पञ्चमोऽध्यायः । अत्राह । उक्तं भवता धर्मादीनस्तिकायान् परस्ताल्लक्षणतो वक्ष्याम इति तत्किमेषां लक्षणमिति । अत्रोच्यते-- गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥ १७ ॥ गतिमतां गतेः स्थितिमतां च स्थितरुपग्रहो धर्माधर्मयोरुपकारो यथासङ्खयम् । उपग्रहो निमित्तमपेक्षा कारणं हेतुरित्यनर्थान्तरम् । उपकारः प्रयोजनं गुणोऽर्थ इत्यनान्तरम् ॥ १७॥ ___ आकाशस्यावगाहः ॥ १८ ॥ अवगाहिनां धर्माधर्मपुद्गलजीवानामवगाह आकाशस्योपकारः। धर्माधर्मयोरन्तःप्रवेशसंभवेन पुद्गलजीवानां संयोगविभागैश्चेति॥१८॥ शरीरवाङमनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ पञ्चविधानि शरीराण्यादाारकादीन वाङ्मनःप्राणापांनाविति पुद्गलानामुपकारः । तत्र शरीराणि यथोक्तानि । प्राणापानौ च नामकर्माण व्याख्यातौ । द्वीन्द्रियादयो जिह्वेन्द्रिययोगाद्भाषात्वेन गृह्णन्ति नान्ये । संज्ञिनश्च मनस्त्वेन गृह्णन्ति नान्य इति । वक्ष्यते हि 'सकषायत्वान्जीवः कर्मणो योग्यान् पुद्गलानादत्त' इति ॥१९॥ किं चान्यत् १ अ. ५ सू. १ भाष्ये। २ इतिशब्दश्चार्थे । ३ अ. २ सू. ३७. ४ अ. ६ सू १२ भाष्ये। ५ श्र. ८ सू. २.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy