________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु . ११० काशप्रदेशेषु भाज्योऽवगाहः । भाज्यो विभाज्यो विकल्प इत्यनान्तरम् । तद्यथा-परमाणोरेकस्मिन्नेव प्रदेशे । ब्यणुकस्यैकस्मिन् द्वयोश्च । व्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च । एवं चतुरणुकादीनां सङ्ख्थेयासङ्खयेयप्रदेशस्यैकादिषु सङ्खयेयेष्वसङ्खयेयेषु च । अनन्तप्रदेशस्य च ॥ १४ ॥
असंख्येयभागादिषु जीवानाम् ॥ १५॥ लोकाकाशप्रदेशानामसङ्खयेयभागादिषु जीवानामवगाहो भवति । आसर्वलोकादिति ॥ १५ ॥
अत्राह । को हेतुरसंख्येयभागादिषु जीवानामवगाहो भवतीति। अत्रोच्यते--
प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ १६ ॥
जीवस्य हि प्रदेशानां संहारविसर्गाविष्टौ प्रदीपस्येव । तद्यथातैलवय॑ग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागारशालां प्रकाशयत्यण्वीमाप, माणिकावृतः माणिकां द्रोणावृतो द्रोणमाढकावृतश्चाढकं प्रस्थावृतः प्रस्थं पाण्यावृतो पाणिमिति । एवमेव प्रदेशानां संहारविसर्गाभ्यां जीवो महान्तमणुं वा पञ्चविधं शरीरस्कन्धं धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायं व्यामोतीत्यवगाहत इत्यर्थः । धर्माधर्माकाशजीवानां परस्परेण पुद्गलेषु च वृत्तिर्न विरुध्यतेऽमूर्तत्वात् ॥ ___अत्राह । सति प्रदेशसंहारविसर्गसंभवे कस्मादसङ्खयेयभागादिषु जीवानामवगाहो भवति नैकप्रदेशादिष्विति । अत्रोच्यते । सयोगत्वात्संसारिणां चरमशरीरत्रिभागहीनावगाहित्वाच्च सिद्धानामिति ॥ १६॥
१ अपरित्यक्तस्वात्मावयवोऽप्यनेकमाकारमादत्ते प्रदीपः । २ सिद्धमिदम् । जीवो महान्तमणुं वा संहारविसर्गाभ्यां विग्रहं गृहाति । ३ सह योगेन वर्तत इति सयोगः । कार्मणशरीरीति यावत् ।