________________
सभाष्य
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १०८
रूपिणः पुद्गलाः ॥ ४॥ पुद्गला एव रूपिणो भवन्ति । रूपमेषामस्त्येषु वास्तीति रूपिणः॥४॥ ___ आ(आ-आ)काशादेकद्रव्याणि ॥ ५॥
आ आकाशाद्धर्मादीन्येकद्रव्याण्येव भवन्ति । पुद्गलजीवास्त्वनेकद्रव्याणीति ॥५॥
निष्क्रियाणि च ॥६॥ आ आकाशादेव धर्मादीनि निष्क्रियाणि भवन्ति । पुद्गल जीवास्तु क्रियावन्तः। क्रियति गतिकर्माह ॥६॥
___ अत्राह । उक्तं भवता प्रदेशावयवबहुत्वं कायसंज्ञमिति । तत्मात्क एषां धर्मादीनां प्रदेशावयवनियम इति । अत्रोच्यते । सर्वेषां प्रदेशाः सन्त्यन्यत्र परमाणोः । अवयवास्तु स्कन्धानामेव । वक्ष्यते हि " अणवः स्कन्धाश्च" " संघातभेदेयं उत्पद्यन्ते" इति॥
१ पूराणाद् गलनाच्च पुद्गलाः परमाणुप्रभृतयोऽन्तानन्तप्रदेशस्कन्धपर्यवसाना स्त एव रूपवत्तामनन्यसाधारणीमनेकरूपपरिणातसामर्थ्यापादितसूक्ष्मस्थूलविशेषाविशेषप्रकर्षाप्रकर्षवर्तिनीं बिभ्रति । न धर्मादिद्रव्यविशेषा इति रूपवत्त्वमत्रावधार्यते । तद्धि न जातुचिदतिपरिचितपरमाणुयणुकादिक्रमवृद्धद्रव्यकलापमुज्झति । सामर्थ्याच्च पुद्गला अपि न तां विहाय वर्तन्ते । अतः पुद्गला एव रूपिणः ।
२ एकशब्दोऽसहायार्थमभिधत्ते । यथा परमाणुः परमाण्वन्तरेण सद्वितीयः । आत्मा आत्मान्तरेण शानसुखदुःखजीवनादिभेदभाजा । न धर्मद्रव्यं धर्मद्रव्यान्तरेण ससहायम् । एवमेवाधर्मव्योमनी।
३ इतिकरणं यस्मादर्थे । यस्मात्तुल्यजातीयभूयस्तमेषां तस्मादनेकद्रव्याणि परमाणुप्रभृतीन्यनन्ताणुकस्कन्धावसानानि क्षितिजलज्वलनानिलतरुद्वित्रिचतुष्पञ्चेन्द्रियास्मानश्चेति भावनीयम् ।
४ अ. ५ सू. १ भाष्ये। ५ अ. ५ सू. २५. ६ अ. ५ सू. २६.