________________
१०७
पञ्चमोऽध्यायः।
काय इत्यजीवकायाः । तान् लक्षणतः परस्ताद्वक्ष्यामः । कायग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थ च ॥१॥
द्रव्याणि जीवाश्च ॥ २॥ एते धर्मादयश्चत्वारो प्राणिनश्च पञ्च द्रव्याणि च भवन्तीति। उक्तं हि "मैतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु" "सर्वद्रव्यपर्यायेषु केवलस्य" इति ॥२॥
नित्यावस्थितान्यरूपाणि ॥ ३ ॥ एतानि द्रव्याणि नित्यानि भवन्ति । 'तद्भावोव्ययं नित्यम्' इति वक्ष्यते ॥ अवस्थितानि च । न हि कदाचित्पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति ॥ अरूपाणि च । नैषां रूपमस्तीति । रूपं मूर्तिर्मूाश्रयाश्च स्पर्शादय इति ॥३॥
__पुद्गलं विना सर्वद्रव्याण्यरूपीणि नित्यावस्थितानि च तत्र नित्यत्वं नाम परिणामान्तरापत्तो सत्यामप्यन्वयिनोंऽशादप्रच्युतरूपत्वं कदाचिदपि पञ्चभूतार्थ न व्यभिचरती. त्येवंरूपत्वमवस्थितस्य लक्षणम् । जीवपुद्गलौ विना निष्क्रियाण्यपि तानि सन्ति । तत्र क्रियावत्त्वं नाम कर्मबन्धनिबन्धनचेष्टाविशेषरूपत्वम् , निमित्तशब्दयापेक्षत्वे सति द्रव्यस्य देशान्तरप्राप्तिहेतुभूतपर्यायविशेषरूपत्त्वं वा । तदभाववत्त्वं निष्क्रियत्वम् ।
१ अ. ५ सू. १७-१८-१९-२०-२१-२२.
२ पट्टसाटिकादृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वापरकोटिविप्रमुक्तो वर्तमान एक कालांशः।
३ अ. १ सू. २७. ४ अ. १ सू. ३०. ५ अ. ५ सू. ३०.