________________
अथ पञ्चमोऽध्यायः।
उक्ता जीवाः । अजीवान्वक्ष्यामः ॥ अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥ धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः पुद्गलास्ति
१ जीवो न भवतीत्यजीव इति प्रसज्यप्रतिषेधः । अजीवानां काया अजीवकायाः शिलापुत्रकस्य शरीरमित्यभेदेऽपि षष्ठी दृष्टा । तथा सुवर्णस्यांगुलीयकम् । अन्यत्वाशंकाव्यावृत्त्यर्थो वा कर्मधारय एवाभ्युपेयते । अजीवाश्च ते कायाश्चेत्यजीवकायाः । कायशब्द उपसमाधानवचनः । प्रदेशानामवयवानां च सामीप्येनान्योन्यानुवृत्त्या सम्यगमर्यादया धारणमवस्थानमुपसमाधानम् ।
२ अस्तीत्ययं त्रिकालवचनो निपातः। अभूवन भवन्ति भविष्यन्ति चेति भावना । अतोऽस्ति च ते प्रदेशानां (तादृशदेशसम्बन्धकत्वे सति अविभागभागविशेषकल्पनारूपः प्रदेशः) कायाश्च राशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः । सा चतुर्धा धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायश्च । एत एव कालेन सह पञ्च अजीवसामान्यमस्ति जीवेन सह च षड् द्रव्याणीति कथ्यन्ते । १ स्वभावतः सञ्चरतां जीवपुद्गलानां गमनागमनादिचेष्टासु भाषामनोवच:काययोगादिषु मीनानां पानीयमिव यदापेक्षितकारणं तद्रूपत्वम्, गतिरूपेण परिणतानां जीवपुद्गलानां गतौ यदापेक्षितकारणं तद्रूपत्वं वा धर्मास्तिकायस्य लक्षणम् । २ स्वभावतः स्थितिमतां जीवपुद्गलानां, पान्थानां छायास्थलमिव शवननिषदनस्थानालम्बनादिषु यत्साधारणनिमित्तं तद्रूपत्वं, स्थितिरूपण परिणतानां जीवपुद्गलानां यत् साधारणनिमित्तं तद्रूपत्वं वाऽधर्मास्तिकायस्य लक्षणम् । ३ अवगाहमानानां पदार्थानामवकाशे शर्करावढ्न्योर्दुग्धायागोलकवत् हेतुताधारकत्वमाकाशस्य लक्षणम्। ४ ग्रहणधारणादिपरिणामत्वे सति रूपादिमत्त्वम् ,रूपादिसंस्थानपरिणामरूपत्वं वा पुद्गलास्तिकायस्य लक्षणम् । ५ वर्तन्ते भवन्ति भावास्तेन रूपेण ताज् प्रति प्रयोजकत्वं वर्तना सा लक्षणमस्येति वर्तनालक्षणः कालः द्रुमादिषुष्पोद्भेदादिनयत्यहेतुः । ६ उपयोगवत्त्वं जीवस्य लक्षणम् । शानदर्शनयोः सम्यक् स्वाविषयकसीमानलंघनेन धारणरूपवत्त्वम् , बाह्याभ्यन्तरनिमित्तकत्वे सति आत्मनो यथायोगं चैतन्यानुकारिपरिणामविशेषरूपत्वं वोपयोगस्य लक्षणम् ।