SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। दश वर्षसहस्राणि प्रथमायाम् ॥ ४४ ॥ प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्यां स्थितिः॥४४॥ भवनेषु च ॥ ४५ ॥ भवनवासिनां च दश वर्षसहस्राणि जघन्या स्थितिः ॥४५॥ व्यन्तराणां च ॥ ४६॥ व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः॥४६॥ परा पल्योपमम् ॥४७॥ व्यन्तराणां परा स्थितिः पल्योपमं भवति ॥४७॥ ज्योतिष्काणामधिकम् ॥ ४८ ॥ ज्योतिष्काणां देवानामधिकं पल्योपमं परा स्थितिर्भवति॥४८॥ ग्रहाणामेकम् ॥ ४९॥ ग्रहाणामेकं पल्योपमं स्थितिर्भवति ॥ ४९॥ । नक्षत्राणामर्धम् ॥ ५० ॥ नक्षत्राणां देवानां पल्योपमा परा स्थितिर्भवति ॥५०॥ तारकाणां चतुर्भागः ॥ ५१ ॥ तारकाणां च पल्योपमचतुर्भागः परा स्थितिः ॥५१॥ जघन्या त्वष्टभागः ॥ ५२ ॥ तारकाणां तु जघन्या स्थितिः पल्योपमाष्टभागः॥५२॥ चतुर्भागः शेषाणाम् ॥ ५३ ॥ तारकाभ्यः शेषाणां ज्योतिष्काणां चतुर्भागः पल्योपमस्यापरा स्थितिः ॥५३॥ इति तत्त्वार्थाधिगमसूत्रेषु देवगतिप्रदर्शनो नाम चतुर्थोऽध्यायः ॥ ४ ॥
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy