________________
८१
एवान्तरद्वीपाः । तद्यथा । अश्वकर्णसिंहकर्णहास्तिकर्णकर्णमावरणनामानः ॥ अष्टौ योजनशतान्यवगाह्याष्ट्रयोजनशतायामविष्कम्भा एवान्तरद्वीपाः । तद्यथा । उल्कामुखविद्युज्जिह्वमेषमुखविद्युद्दन्तनामानः । नव योजनशतान्यवगाह्य नवयोजनशतायामविष्कम्भा एवान्तरद्वीपा भवन्ति । तद्यथा । घनदन्तगूढदन्तविशिष्टदन्तशुद्धदन्तनामान: । एकोरुकाणामेकोरुकद्वीपः । एवं शेषाणामपि स्वनाम - भिस्तुल्यनामानो वेदितव्याः || शिखरिणोऽप्येवमेवेत्येवं षट्पञ्चा शदिति ॥ १५ ॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्य:
॥ १६ ॥
मनुष्यक्षेत्रे भरतैरावतविदेहाः पञ्चदश कर्मभूमयो भवन्ति । अन्यत्र देवकुरूत्तरकुरुभ्यः । संसारदुर्गान्तगमकस्य सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य ज्ञातारः कर्त्तार उपदेष्टारश्च भगवन्तः परमर्षयस्तीर्थकरा अत्रोत्पद्यन्ते । अत्रैव जाताः सिद्धयन्ति नान्यत्र । अतो निर्वाणाय कर्मणः सिद्धिभूमयः कर्मभूमय इति । शेषासु विंशतिर्वशाः सान्तरद्वीपा अकर्मभूमयो भवन्ति । देवकुरूत्तरकुरवस्तु कर्मभूम्यभ्यन्तरा अप्यकर्मभूमय इति ॥ १६ ॥
तृतीयोऽध्यायः ।
१ एतचान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैः । येन षण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते । अनार्षे चैतदध्यवसीयते । जीवाभिगमादिषु षट्1 पञ्चाशदन्तरद्वीपकाध्ययनात् । नापि वाचकमुख्याः सूत्रोल्लंघनेन भिदधति । असंभाव्यमानत्वात् । तस्मात् सैद्धान्तिकपाशैर्विनाशितमिदमिति [ सिद्ध. टी. ] एवमेव हरिभद्रटीकायाम् ।
२ सकलकर्माग्नेर्विध्यापनाय सिद्धिप्राप्त्यै भूमयः कर्मभूमयः ।
११