SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सभाष्यतस्त्वार्थाधिगमसूत्रेषु भ्यो वा विशुद्धान्वयप्रकृतयः । कर्मार्या यजनयाजनाध्ययनाध्यापनप्रयोगकृषिलिपिवाणिज्ययोनिपोषणवृत्तयः । शिल्पांर्यास्तन्तुवायकुलालनापिततुन्नवायदेवंटादयोऽल्पसावद्या आगर्हिता जीवाः । भाषार्या नाम ये शिष्टभाषानियतवर्ण लोकरूढस्पष्टशब्दं पञ्चविधा नामप्यार्याणां संव्यवहारं भषन्ते || ८० अतो विपरीता ग्लिशः । तद्यथा । हिमवतश्चतसृषु विदिक्षु त्रीणि योजनशतानि लवणसमुद्रमवगाह्य चतसृणां मनुष्यविजातीनां चत्वारोऽन्तरद्वीपा भवन्ति त्रियोजनशतविष्कम्भायामाः । तद्यथा । एकोरुकाणामाभाषकाणां लागुलिकानां वैषाणिकानामिति ॥ चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामाविष्कम्भा एवान्तरद्वीपाः । तद्यथा । हयकर्णानां गजकर्णानां गोकर्णानां शष्कुलिकर्णानामिति ॥ पञ्च योजनशतान्यवगाह्य पञ्च योजनशतायामविष्कम्भा एवान्तरद्वीपाः । तद्यथा । गजमुखानां व्याघ्रमुखानामादर्शमुखानां गोमुखानामिति ॥ षड् योजनशतान्यवगाद्य तावदायामविष्कम्भा एवान्तरद्वीपाः । तद्यथा । अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखानामिति ॥ सप्त योजनशतान्यवगाह्य तावदायामविष्कम्भा १ अनाचार्यकं किल कर्म तत्रार्याः कर्मयः । २ आचार्योपदेशात् शिक्षितं शिल्पं तन्तुवायादि तत्रार्याः शिल्पार्याः । ३ एतच्छब्दार्थः सम्प्रदायतो ज्ञेयः । ४ शिष्टाः सर्वातिशयसंपन्ना गणधरादयः तेषां भाषा संस्कृतार्धमाग धिकादिका च तत्र शिष्टभाषानियता वर्णा विशिष्टेन पौर्वापर्येण संनिवेशिता यस्यासौ । ५ लोकरूढः अत्यन्तप्रसिद्धः संव्यवहारेषु स्फुट: नाव्यक्तो बालभाषावत् लोकरूढः स्पष्टः शब्दो यस्मिन् संव्यवहारे तमेवंविधम् । ६ क्षेत्रादिभेदभाजामनन्तरोक्तानां संव्यवहारम् आगच्छ याहि इदं कुरु मै कार्षीरित्येवमादिकं भाषन्ते ये ते भाषायः । ७ शकयवन किरातादयः लिशः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy