SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सभाष्य सभाष्यतत्त्वार्थाधिगमसूत्रेषु . ७८ ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी सुनगरप्राकारवृत्तः पुष्करवरद्वीपार्धविनिविष्टः काञ्चनमयः सप्तदशैकविंशतियोजनशतान्युच्छ्रितश्चत्वारि त्रिंशानि क्रोशं चाधो धरणीतलमवगाढो योजनसहस्रं द्वाविंशमधस्ताद्विस्तृतः सप्तशतानि त्रयोविंशानि मध्ये चत्वारि चतुर्विंशान्युपरीति ॥ न कदाचिदस्मात्परतो जन्मतः संहरणतो वा चारणविद्याधर्द्धिप्राप्ता अपि मनुष्या भूतपूर्वा भवन्ति भविष्यन्ति च । अन्यत्र समुद्धातोपपाताभ्याम् । अत एव च मानुषोत्तर इत्युच्यते ॥ तदेवमर्वाङ्मानुषोत्तरस्यार्धतृतीया द्वीपाः समुद्रद्वयं पञ्चमन्दराः पञ्चत्रिंशत्क्षेत्राणि त्रिंशद्वर्षधरपर्वताः पञ्च देवकुरवः पश्चोत्तराः कुरवः शतं षष्टयधिकं चक्रवर्तिविजयानां द्वे शते पञ्चपञ्चाशदधिके जनपदानामन्तरद्वीपाः षट्पञ्चाशदिति ॥ १३ ॥ अत्राह । उक्तं भवता मानुषस्य स्वभावमार्दवार्जवत्वं चेति तत्र के मनुष्याः क चेति । अत्रोच्यते प्राग्मानुषोत्तरान्मनुष्याः ॥ १४ ॥ प्राग्मानुषोत्तरात्पर्वतात्पश्चत्रिंशत्सु क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति । संहरणविद्यार्द्धयोगात्तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समुद्रव्ये च समन्दरशिखरेष्विति ॥ भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन । जम्बूद्वीपका लवणका इत्येवमादयः द्वीपसमुद्रविभागनेति ॥१४॥ १ तपोविशेषानुष्ठानाज्जङ्घाचारिणो विद्याचारिणश्च संयता नन्दीश्वरादिद्वीपान गच्छन्ति चैत्यवन्दनायै । विद्याधरा महाविद्यासंपन्ना ऋद्धिप्राप्ताश्च वैक्रियादिशरीरभाजः सर्वे गच्छन्ति परतः । नतु प्राणान् परित्यजन्ति तत्रैवेति ।। २ कच्छादयो विजयनामानो द्वात्रिंशज्जनपदा जम्बूद्वीपे । चतुःषष्टिर्धातकीखण्डे पुष्करार्धे च । ततः १६० भवन्ति । भरतैरावतापेक्षयार्यजनपदा द्विशतं पञ्चाशच्च भवन्ति । तत्र तावदेकत्रापि भरतवर्षे अर्धषड्विंशा देशा आर्यसंज्ञा मगधादयः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy