________________
सभाष्य
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ७४ तलमवगाढो नवनवत्युच्छ्रितो दशाधो विस्तृतः सहस्रमुपरीति । त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुर्भिवनैर्भद्रशालनन्दनसौमनसपाण्डकैः परिवृत्तः । तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमेकं प्रथमं काण्डम् । द्वितीयं त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकबहुलम् । तृतीयं षट्त्रिंशत्सहस्राणि जम्बूनदबहुलम् । वैडूर्यबहुला चास्य चूलिका चत्वारिंशयोजनान्युच्छ्रायेण मूले द्वादशविष्कम्भेण मध्येऽष्टौ उपरि चत्वारीति । मूले वलयपरिक्षेपि भद्रशालवनम् । भद्रशालवनात्पञ्च योजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृतं नन्दनम् । ततोऽर्धत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजनशतप्रतिक्रान्तिविस्तृतमेव सौमनसम् । ततोऽपि षट्त्रिंशत्सहस्राण्यारुह्य चतुर्नवतिचतुःशतप्रतिक्रान्तिविस्तृतं पाण्डकवनमिति । नन्दनसौमनसाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिर्विष्कम्भस्येति ॥ ९॥
तत्र भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरा
वतवर्षाः क्षेत्राणि ॥ १०॥ तत्र जम्बूद्वीपे भरतं हैमवतं हरयो विदेहा रम्यक हैरण्यवतमैरावतमिति सप्त वंशाः क्षेत्राणि भवन्ति । भरतस्योत्तरतो हैमवतं हैमवतस्योत्तरतो हरय इत्येवं शेषाः । वंशा वर्षा वास्या इति चैषां गुणतः पर्यायनामानि भवन्ति । सर्वेषां चैषां व्यवहारनयापेक्षादादित्यकृतादिनियमादुत्तरतो मेरुर्भवति । लोकमध्यावस्थित चाष्टप
१ वंशाः किल पर्ववन्तो भवन्ति तद्वत्पर्वविभागजननात् वंशा एवामी भरतादयः । वर्षसंनिधानाच्च वर्षाः । मनुजादिनिवासाच्च वास्याः ।
२ व्यवहारो हि संगृहीतानां पदार्थानां विधिपूर्वकमवहरण लोकप्रसिद्धव्यवहारतत्परत्वात् , न खलु निश्चयमवलम्बते सर्वव्यवहारोच्छेदप्रसंगात् ।
३ नैश्चयिकी दिक् कथं प्रतिपत्तव्येत्यत आह-लोकमध्यावस्थितमिति ।