SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७३ तृतीयोऽध्यायः। परिक्षेपिणो वलयाकृतयः प्रत्येतव्याः । तद्यथा । योजनशतसहस्रविष्कम्भो जम्बूद्वीपस्य वक्ष्यते । तद्विगुणो लवणजलसमुद्रस्य । लवणजलसमुद्रविष्कम्भाद् द्विगुणो धातकीखण्डद्वीपस्थस्य । इत्येवमास्वयम्भूरमणसमुद्रादिति ॥ पूर्वपूर्वपरिक्षेपिणः। सर्वे पूर्वपूर्वपरिक्षेपिणः प्रत्येतव्याः । जम्बूद्वीपो लवणसमुद्रेण परिक्षिप्तः। लवणजलसमुद्रो धातकीखण्डेन परिक्षितः धातकीखण्डद्वीपः कालोदसमुद्रेण परिक्षिप्तः । कालोदसमुद्रः पुष्करवरद्वीपार्थेन परिक्षिप्तः पुष्करद्वीपार्ध मानुषोत्तरेण पर्वतेन परिक्षतम् । पुष्करवरद्वीपः पुष्करवरोदेन समुद्रेण परिक्षिप्तः। एवमास्वयम्भूरमणात्समुद्रादिति ॥ वलयाकृतयः । सर्वे च ते वलयाकृतयः सह मानुषोत्तरेणति ॥८॥ तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९॥ तेषां द्वीपसमुद्राणां मध्ये तन्मध्ये ॥ मेरुनाभिः । मेरुरस्य नाभ्यामिति मेरुर्वास्य नाभिरिति मेरुनाभिः। मेरुरस्य मध्य इत्यर्थः॥ सर्वद्वीपसमुद्राभ्यन्तरो वृत्तः कुलालचक्राकृतियोंजनशतसहस्राविष्कम्भो जम्बूद्वीपः । वृत्तग्रहणं नियमार्थम् । लवणादयो वलयवृत्ता जम्बूद्वीपस्तु प्रतैरवृत्त इति । यथा गम्येत वलयाकृतिभिश्चतुरस्रव्यस्रयोरपि परिक्षेपो विद्यते तथा च माभूदिति ॥ मेरुरापि काञ्चनस्थालनाभिरिव वृत्तो योजनसहस्रमधोधराणि १ अ. ३ सू. ९, २ कुलालचक्रवद्वर्तुंलाकारः ।।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy