SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ७५ तृतीयोऽध्यायः। देशं रुचकं दिग्नियमहेतुं प्रतीत्य यथासम्भवं भवतीति ॥१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील रुक्मिशिखरिणो वर्षधरपर्वताः ॥११॥ ____ तेषां वर्षाणां विभक्तारो हिमवान् महाहिमवान् निषधो नीलो रुक्मी शिखरी इत्येते षड् वर्षधराः पर्वताः । भरतस्य हैमवतस्य च विभक्ता हिमवान् हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवानित्येवं शेषाः॥ . तत्र पञ्च योजनशतानि षड्विंशानि षट् चैकोनविंशतिभागा भरतविष्कम्भः । स द्विार्हिमवद्धैमवतादीनामाविदेहेभ्यः । परतो विदेहेभ्योऽर्धाहीनाः ॥ पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छायो हिमवान् ।। तद्धिमहाहिमवान् । तद्विनिषध इति ॥ .. भरतवर्षस्य योजनानां चतुर्दशसहस्राणि चत्वारि शतान्येकसप्ततानि षट् च भागा विशेषतो ज्या इषुर्यथोक्तो विष्कम्भः । १ रुचकः-तिर्यग्लोकस्य मध्यभागे आयामविष्कम्भाभ्यां प्रत्येकं रज्जुप्रमाणौ सर्वप्रतराणां क्षुल्लकौ द्वौ नभःप्रदेशप्रतरौ विद्यते। तयोश्च मेरुमध्यप्रदेशे मध्यं लभ्यते । तत्र च मध्य उपरितनप्रतरस्य ये चत्वारो नभःप्रदेशास्तथा-अधस्तनप्रतरस्य तु ये चत्वारो व्योमप्रदेशास्तेषामष्टानामपि प्रदेशानां समये रुचक इति परिभाषा । अयं चाष्टप्रदेशिको रुचकः समस्ततिर्यग्लोकमध्यवर्ती गोस्तनाकारः क्षेत्रतः षण्णामपि दिशां चतसृणामपि च विदिशां प्रभवः ( उत्तत्तिस्थानम् ) मन्तव्यः-तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्वन्तौ सर्वक्षुल्लकप्रतरौ, तयोरुपारतनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतस्रो रुचको दिशामनुदिशां च प्रभव उत्पत्तिस्थानामति । ( आचा. १ श्रु.) २ 'अत्र सुगमत्वार्थ योजनानां कला एव कल्प्याः स्युस्ताश्च जम्बूद्वीपपरिमाणे एकोनविंशतिलक्षा जायन्ते । अयं प्रकार इह अवगाह इति भण्यते । ततः इच्छावगाहो यस्य कस्यचित्क्षेत्रस्य विष्कम्भावगाहः प्रवेदनीयः स च कलागणनया भरतस्य दशसहस्री भवति । अनेन इच्छावगाहेन कृत्वा ऊनो हीनश्वासाववगाहः प्रागुक्तस्वरूपश्व इच्छावगाहोनावगाहः १८९०००० तेन अभ्यस्तो गुणित इच्छावगाहोनावगाहाभ्यस्तस्तथाभूतस्य विष्कम्भस्य भरतादिविस्तारस्य १८९०००००००० ततश्चतुर्गुणस्य ७५६०००००००० यत् किल मूलं समायाति २७४९५५ अथ योजनशानाय एकोनविशंतिभागो देयः १४४७१।६ इयं भरतज्या ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy