________________
६९
तृतीयोऽध्यायः ।
संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥ ५॥
संक्लिष्टासुरोदीरितदुःखाश्च नारका भवन्ति । तिसृषु भूमिषु प्राक् चतुर्थ्याः । तद्यथा । अम्बाम्बरीषश्यामशबलरुद्रोपरुद्रकालमहाकालास्यासिपत्रवनकुम्भीवालुकावैतरणीखरस्वरमहाघोषाः पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मसु संक्लिष्टकर्माणः पापाभिरतय आसुरीं गतिमनुप्राप्ताः कर्मक्लेशजा एते ताच्छील्यान्नारकाणां वेदनाः समुदीरयन्ति चित्राभिरुपपत्तिभिः । तद्यथा । तप्तायोरसपायननिष्टप्तायःस्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतारणायोधनाभिघातवासी क्षुरतक्षणक्षारतप्ततैलाभिषेचनायःकुम्भपाकाम्बरीषतजनयन्त्रपीडनायःशूलशलाकाभेदनक्रकचपाटनाङ्गारदहनवाहनामूचीशाड्वलापकर्षणैः तथा सिंहव्याघ्रद्वीपिश्वशृगालककोकमार्जारनकुलसर्पवायसगृध्रकाकोलूकश्येनादिखादनैः तथा तप्तवालुकावतरणासिपत्रवनप्रवेशनवैतरण्यवतारणपरस्परयोधनादिभिरिति ॥
स्यादेतत्किमर्थ त एवं कुर्वन्तीति । अत्रोच्यते । पापकर्माभिरतय इत्युक्तम् । तद्यथा गोवृषभमहिषवराहमेषकुक्कुटवार्तकालावकान्मुष्टिमल्लांश्च युध्यमानान् परस्परं चाभिघ्नतः पश्यतांरागद्वेषाभिभूतानामकुशलानुबन्धिपुण्यानां नराणां परा प्रीतिरुत्पद्यते तथा तेषामसुराणां नारकांस्तथा तानि कारयतामन्योन्यं नतश्च पश्यतां परा प्रीतिरुत्पद्यते । ते हि दुष्टकन्दपस्तिथाभूतान् दृष्ट्वाट्टहासं मुश्चन्ति चेलोत्क्षेपान्क्ष्वोडितास्फोटितावल्लिते तलतालनिपातनांश्च कुर्वन्ति महतश्च सिंहनादानदन्ति । तच्च तेषां सत्यपि देवत्वे सत्सु च कामिकेध्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीव्रकषायोपह
१ शल्यते बाध्यतेऽनेनेति शल्यम् क्लेशज्वरस्वरूपत्वे सति संयमस्वरूपभेदित्वं शल्यस्य लक्षणम् । तच्च शल्यं द्रव्यतस्तोमरादि, भावतस्तु इदं त्रिविधं मायानिदानमिथ्यादर्शनभेदात् (१) माया-निकृतिः सैव शल्यं मायाशल्यम् । (२) नितरां दीयते-लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवर्द्धयादिप्रार्थनपरिणामनिशितासिनेति निदानम् , (३) मिथ्या-विपरीतं दर्शनं मिथ्यादर्शन मिति ।