________________
६७
तृतीयोऽध्यायः ।
शीते चतुर्थ्याम् । शीतोष्णे पञ्चम्याम् । परयोः शीताः शीततराश्चेति । तद्यथा । प्रथमर्शरत्काले चरमनिदाघे वा पित्तव्याधिप्रकोपाभिभूतशरीरस्य सर्वतो दीप्ताग्निराशिपरिवृतस्य व्यभ्रे नभसि मध्याह्ने निवातेऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति । पौषमाघयोश्च मासयोस्तु - पारलिप्तगात्रस्य रात्रौ हृदयकरचरणाधरौष्टदशनायासिनि प्रतिसमयमवृद्धे शीतमारुते निरग्न्याश्रयमावरणस्य यादृशीतसमुद्भवं दुःखशुभं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टं शीतवेदनेषु नरकेषु भवति । यदि किलोष्णवेदनान्नरकादुत्क्षिप्य नारकः सुमहत्यङ्गारराशाबुद्दीष्ठे प्राक्षिप्येत स किल सुशीतां मृदुमारुतं शीतलां छायामिव प्राप्तः सुखमनुपमं विन्द्यान्निद्रां चोपलभेत एवं कष्टतरं नारकमुष्णमाचक्षते । तथा किल यदि शीतवेदनान्नरकादुत्क्षिप्य नारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषारराशौ प्रक्षिप्येत सदन्तशब्दोत्तमकरप्रकम्पायास करेऽपि तत्र सुखं विन्द्यादनुपमां निद्रां चोपलभेत एवं कष्टतरं नारकं शीतदुःखमाचक्षत इति ॥
-
अशुभतरविक्रियाः । अशुभतराश्च विक्रिया नरकेषु नारकाणां भवन्ति । शुभं करिष्याम इत्यशुभतरमेव विकुर्वते । दुःखाभिभूतमनसश्च दुःखप्रतीकारं चिकीर्षवो गरीयस एव ते दुःखहेतुविकुर्वत इति ।। ३ ।।
परस्परोदीरितदुःखाः ॥ ४ ॥ परस्परोदीरितानि दुःखानि नरकेषु नारकाणां भवन्ति । क्षेत्रस्वभावजनिताच्चाशुभात्पुद्गलपरिणामादित्यर्थः ॥
१ बहूनां शीता स्तोकानामुष्णेति शीतोष्णे ।
२ ऋतूनां द्विमासकत्वाद् द्वाभ्यां मासाभ्यां क्रमशः प्रथमत्वचरमत्वव्यवहारः । ३ आश्रयः-निवासस्थानम् ।
४ परस्परोदीरितानि - अन्योन्यदत्तानि ।