SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सभाष्यतस्त्वार्थाधिगमसूत्रेषु ६६ गुरुलघुशब्दाख्यो दशविधोऽशुभः पुद्गलपरिणामो नरकेषु । अशुभतरश्चाधोऽधः । तिर्यगूर्ध्वमधश्च सर्वतोऽनन्तेन भयानकेन नित्योत्तमकेन तमसा नित्यान्धकाराः श्लेष्ममूत्रपुरीषस्रोतोमल रुधिरवसामेदपूयानुलेपनतलाः श्मशानमिव पूतिमांसकेशास्थिचर्मदन्तनखास्तीर्णभूमयः । श्वशृगालमार्जारनकुल सर्पमूषक हस्त्यश्वगोमानुपशवकोष्ठांशुभतरगन्धाः । हा मातर्धिगहो कष्टं बत मुञ्च तावद्धावत प्रसीद भर्तर्मा वधीः कृपणकमित्यनुबद्ध रुदितैस्तीत्रकरुणैदन विक्लवैर्विलापैरार्त्तस्वनैर्निनादैर्दीनकृपणकरुणैर्याचितैर्वाष्पसंनिरुद्धैर्निस्तनितैर्गाढवेदनैः कूजितैः सन्तापोष्णैश्च निश्वासैरनुपरतभयस्वनाः । अशुभतरदेहाः । देहाः शरीराणि । अशुभनामप्रत्ययादशुभान्यङ्गोपाङ्गनिर्माण संस्थान स्पर्शरसगन्धवर्णस्वराणि । हुण्डानि निर्लनौण्डजशरीराकृतीनि क्रूरकरुणवीभत्सप्रतिभयदर्शनानि दुःखभाज्यशुचीनि च तेषु शरीराणि भवन्ति । अतोऽशुभतराणि चाधोऽधः । सप्त धनूंषि त्रयो हस्ताः षडङ्गुलमिति शरीरोच्छ्रायो नारकाणां रत्नप्रभायाम्। द्विर्दिंः शेषासु । स्थितिवच्चोत्कृष्टजघन्यता वेदितव्या ।। अशुभतरवेदनाः । अशुभतराश्च वेदना भवन्ति नरकेष्वधोऽधः । तद्यथा । उष्ण वेदनास्तीवास्ती व्रत रास्तीव्रतमाचातृतीयायाः । उष्ण १ सर्वेषां हि जीवानां शरीराण्यात्मनो न गुरूणि नापि लघूनि इति अगुरुलघुपरिणामः । सचानिष्टोऽनेकविधदुःखाश्रयत्वात् । २ प्रेतीभूतानां श्वादीनामुदरदौर्गन्ध्यवद्दोर्गन्ध्याविशिष्टाः । ३ अनुबद्धं - सततम् । ४ यत्र हस्तपादाद्यवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तडुण्डमित्युच्यते । ५ निर्लूनं-भिन्नम् । ६ रत्नप्रभानारकशरीराणां द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणम् । तदपि द्विगुणं तृतीयस्याम् । एवं यावत्सप्तम्यां पञ्चधनुः शतानि पूर्णानि । ७ बहूनामुष्णा स्तोकानां शीतेत्युष्णशीते ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy