SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६५ तृतीयोऽध्यायः । वमाद्या अशुभनामानः कालमहाकालरौरवमहारौरवाप्रतिष्ठानपर्यन्ताः। रत्नप्रभायां नरकाणां प्रस्तारास्त्रयोदश । द्विन्यूनाः शेषासु । रत्नप्रभायां नरकवासानां त्रिंशच्छतसहस्राणि ।। शेषासु पञ्चविंशतिः पञ्चदश दश त्रीण्येकं पञ्चोनं नरकशतसहस्रमित्याषष्ठयाः । सप्तम्यां तु पञ्चैव महानरका इति ॥ २॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३॥ ते नरका भूमिक्रमेणाधोऽधो निर्माणतोऽशुभतराः। अशुभा रत्नप्रभायां ततोऽशुभतराः शर्कराप्रभायां ततोऽप्यशुभतरा वालुकाप्रभायाम् । इत्येवमासप्तम्याः॥ नित्यग्रहणं गतिजातिशरीराङ्गोपाङ्गकर्मनियमादेते लेश्यादयो भावा नरकगतौ नरकपञ्चेन्द्रियजातौ च नैरन्तर्येणाभवक्षयोद्वर्तनाद्भवन्ति न कदाचिदक्षिनिमेषमात्रमपि न भवन्ति शुभा वा भवन्त्यतो नित्या इत्युच्यन्ते ॥ ___ अशुभतरलेश्याः । कापोतलेश्या रत्नप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना कापोता शर्कराप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना कापोतनीला वालुकाप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना नीला पङ्कप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना नीलकृष्णा धूमप्रभायाम् । ततस्तीवतरसंक्लेशाध्यवसाना कृष्णा तमः प्रभायाम्। ततस्तीव्रतरसंक्लेशाध्यवसाना कृष्णैव महातमःप्रभायामिति। ____ अशुभतरपरिणामः । बन्धनगतिसंस्थानभेदवर्णगन्धरसस्पर्शा १ बन्धः-पुद्गलानां शरीदादिषु संश्लिष्यतामत्यन्ताशुभतरपरिणामो भवति । गतिः नारकाणामप्रशस्तविहायोगतिनामकर्मों ( ८-१२) दयादशुभा भवन्त्युष्ट्रपतङ्गादिवत् । संस्थानं-नरकाकृतिः नारकाकृतिश्च उभयमप्यालोक्यमानमेवोद्वेगमुपजनयति महाश्वभ्रवत्, पिशाचाकृतिवद्वा । भेदपरिणामोऽपि पुद्गलानामशुभः शरीरनरककुड्यादिभ्यो विभिद्यमानाः पुद्गलाः वर्णस्पर्शादिभिरशुभपरिणामा जायन्ते, ततश्च दुःखहेतवो भवन्ति ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy