SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्वार्याधिगमसूत्रेषु - ६४ मवगाहनमाकाशस्यति । . तदनेन क्रमेण लोकानुभावसंनिविष्टा असङ्खयेययोजनकोटीकोव्यो विस्तृताः सप्त भूमयो रत्नप्रभाद्याः॥ __ सप्तग्रहणं नियमार्थ रत्नप्रभाद्या माभूवन्नेकशो ह्यनियतसङ्ख्या इति । किं चान्यत् । अधः सप्तैवेत्यवधार्यते। ऊर्ध्वं त्वेकैवेति वक्ष्यते। अपि च तन्त्रान्तरीया असङ्खचेयेषु लोकधातुष्वसङ्खयेयाः पृथिवीप्रस्तारा इत्येध्यवसिताः । तत्प्रतिषेधार्थ च सप्तग्रहणमिति ॥ __सर्वाश्चैता अधोऽधः पृथुतराः छत्रातिच्छत्रसंस्थिताः । धर्मा वैशा शैलाञ्जनारिष्टा माधव्या माधवीति चासां नामधेयानि यथासङ्ख्यमेव भवन्ति । रत्नप्रभा घनभावेनाशीतं योजनशतसहस्रं शेषा द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टाधिकमिति । सर्वे घनोदधयो विंशतियोजनसहस्राणि । घनवाततनुवातास्त्वसङ्ख्येयानि अधोऽधस्तु घनतरा विशेषेणेति ॥१॥ तासु नरकाः ॥२॥ तासु रत्नप्रभाद्यासु भूपूर्ध्वमधश्चैकशो योजनसहस्त्रमेकैकं वर्जयित्वा मध्ये नरका भवन्ति। तद्यथा । उष्ट्रिकापिष्टपचनीलोहीकरकेन्द्रजानुकाजन्तोकायस्कुम्भायःकोष्ठादिसंस्थाना वज्रतलाः सीमन्तकोपक्रान्ता रौरवोच्युतो रौद्रो हाहारवो घातनः शोचनस्तापनः क्रन्दनो विलपनश्छेदनो भेदनः खटाखटः कालपिञ्जर इत्ये १ तंत्रान्तरीया जिनप्रवचनबाह्याः । ते च प्रायः प्रस्तावान्मायासूनवीया एव गृह्यन्ते । २ एकरज्जुप्रमाणाविष्कम्भायामाभ्यां रत्नप्रभा । शर्कराप्रभातृतीयरज्जुप्रमाणा वालुकाप्रभा चतूरज्जुप्रमाणा पंकप्रभा पञ्चरज्जुप्रमाणा धूमप्रभा रज्जुषट्कप्रमाणा तमःप्रभार्धसप्तरज्जुप्रमाणा महातमःप्रभा सप्तरज्जुप्रमाणेति । ३ छत्रमायामविष्कम्भाभ्यां लघु भवति तदधोवर्ति विस्तीर्णतरं तस्याप्यधो विशालतम इत्यतः छत्रातिछत्रवत् स्थिताः । ४ धर्मा इति नाम रत्नप्रभा इति गोत्रम् । एवं क्रमेण सप्तानामपि शेयम् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy