SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६१ द्वितीयोऽध्यायः । निजाः सोपक्रमा निरुपक्रमाश्चापवर्त्यायुषोऽनपवर्त्यायुषश्च भवन्ति । तत्र येऽपवर्त्यायुषस्तेषां विषशस्त्रकण्टकान्युदकाह्यशिताजीर्णाशनिप्रपातोद्बन्धनश्वापदवज्रनिर्घातादिभिः क्षुत्पिपासाशीतोष्णादिभिश्व द्वन्द्वोपक्रमैरायुरपवर्त्यते । अपवर्तनं शीघ्रमन्तर्मुहूर्तात्कर्मफलोपभोगः उपक्रमोऽपवर्तननिमित्तम् ॥ अत्राह । यद्यपवर्तते कर्म तस्मात्कृतनाश: प्रसज्यते यस्मान्न वेद्यते । अथास्त्यायुष्कं कर्म म्रियते च तस्मादकृताभ्यागमः प्रसज्यते । येन सत्यायुष्के म्रियते च ततश्चायुष्कस्य कर्मण आफल्यं प्रसज्यते । अनिष्टं चैतत् । एकभवस्थिति चायुष्कं कर्म न जात्यन्तरानुबन्धि तस्मान्नापवर्तनमायुषोऽस्तीति । अत्रोच्यते । कृतनाशाकताभ्यागमाफल्यानि कर्मणो न विद्यन्ते । नाप्यायुष्कस्य जात्यन्तरानुबन्धः । किं तु यथोक्तैरुपक्रमैरभिहतस्य सर्वसन्दोहेनोदयप्राप्तमायुष्कं कर्म शीघ्रं पच्यते तदपवर्तनमित्युच्यते । संहतशुष्कतृणराशिदहनवत् । यथा हि संहतस्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवति तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो युगपदादीपितस्य पवनोपक्रमाभिहतस्याशु दाहो भवति तद्वैत् । यथा १ कृतनाश: १ अकृताभ्यागमः २ कर्मणां फलराहित्यं ३ चेति दोषत्रयमनेन पूर्वपक्षेण प्रतिपाद्यते । २ अनेन पूर्वोक्तदोषत्रयं खण्ड्यते । ३ अध्यवसान विषशस्त्रादिभिः । ४ अभिप्लुतस्य । ५ सर्वात्मना साकल्येनेत्यर्थः । ६ प्राप्तविपाकमाशु भवति । यस्तु तस्य क्रमभावी विपाकः सोऽपवर्त्यते । अनुभवः पुनः सर्वस्य युगपन्न निषिध्यते । इत्येषोऽपवर्तनशब्दार्थः । ७ संहतत्वात्परिशेषवानपि तृणपुञ्जश्चिराय दह्यते यदा तु विरलितो भवत्यवयवशस्तदाशु भस्मसाद्भवति तद्वदायुषो ऽप्यनुभवः । यदायुर्दृढसंहितमतिधनतया बन्धकाल एव परिणाममापादितं भवति पवनश्लेषवत् । तत्क्रमेण वेद्यमानं चिराय वेद्यते ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy