SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्वार्याधिगमसूत्रेषु औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषोऽ नपवर्त्यायुषः ॥५२॥ औपपातिकाश्चरमदेहा उत्तमपुरुषा असङ्खयेयवर्षायुष इत्येतेऽनपवायुषो भवन्ति । तत्रौपपातिका नारकदेवाश्चेत्युक्तम् । चरमदेहा मनुष्या एव भवन्ति नान्ये । चरमदेहा अन्त्यदेहा इत्यर्थः । ये तेनैव शरीरेण सिध्यन्ति । उत्तमपुरुषास्तीर्थकरचक्रवर्त्यर्धर्चक्रवर्तिनः । असङ्ख्यवर्षायुषो मनुष्याः तिर्यग्योनिजाश्च भवन्ति । सदेवकुरुत्तरकुरुषु सान्तरद्वीपकास्वकर्मभूमिषु कर्मभूमिधू च सुषमसुषमायां सुषमायां सुषमदुःषमायामित्यसङ्ख्येयवर्षायुषो मनुष्या भवन्ति । अत्रैव बाह्येषु द्वीपेषु समुद्रेषु तिर्यग्योनिजा असङ्खधेयवर्षायुषो भवन्ति । औपपातिकाश्चासङ्ख्येयवर्षायुषश्च निरुपक्रमाः । चरमदेहाः सोपक्रमा निरुपक्रमाश्चेति । एभ्य औपपातिकचरमदेहासङ्खयेयवर्षायुर्व्यः शेषा मनुष्यास्तिर्यग्यो १ चक्रवर्तिनः-भरतादयः । २ अर्धचक्रवर्तिनः-रामकृष्णप्रतिकृष्णः । ३ सह देवकुरुभिरुत्तरकुरवः सदेवकुरूत्तरकुरवः तत्र देवकुरुत्तरकुरुषु जम्बुद्दीपधातकीखण्डपुष्करद्वीपार्धवृत्तिषु । ४ अ. ३ सू. १४,१५,१६. ५ अकर्मभूमिषु-हैमवतहरिवर्षरम्यकहरण्यवताख्यासु जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्धवर्तिनीषु । ६ कर्मणो भूमयः । यत्र जाताः प्राणिनः सकलं कर्म क्षपयित्वा सिध्यन्ति तीर्थकरोपदेशात्ताः कर्मभूमयो भरतैरावतविदेशक्षेत्राणि पञ्चदश प्रत्येकं पञ्चभेदत्वात् । ७ अ. ४ सू. १५ ८ मनुष्यक्षेत्राहिभूतेषु । . ९ न ह्येषां प्राणापानाहारनिरोधाध्यवसाननिमित्तवेदनापराघातस्पर्शाख्याः सप्त वेदना विशेषाः सन्त्यायुषो भेदका उपक्रमा इत्यतो निरुपक्रमा एव ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy