SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ - द्वितीयोऽध्यायः। . विधमेव लिङ्ग स्त्रीलिङ्ग पुंल्लिङ्ग नपुंसकलिङ्गामिति ॥ तथा चारित्रमोहे नोकषायवेदनीये त्रिविध एव वेदो वक्ष्यते । स्त्रीवेदः पुंवेदो नपुंसकवेद इति ॥ तस्मात्रिविधमेव लिङ्गमिति ॥ तत्र-. _ नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥ नारकाश्च सर्वे सम्मूर्छिनश्च नपुंसकान्येव भवन्ति । न स्त्रियो न पुमांसः । तेषां हि चारित्रमोहनीयनोकषायवेदनीयाश्रयेषु त्रिषु वेदेषु नपुंसकवेदनीयमेवैकमशुभगतिनामापेक्षं पूर्वबद्धनिकाचितमुदयप्राप्तं भवति नेतरे इति ॥५०॥ न देवाः ॥ ५१ ॥ देवाश्चतुर्निकाया अपि नपुंसकानि न भवन्ति । स्त्रियः पुमांसश्च भवन्ति । तेषां हि शुभगतिनामापेक्षे स्त्रीपुंवेदनीये पूर्वबद्धानकाचिते उदयप्राप्ते द्वे एव भवतो नेतरत् । पारिशेष्याच्च गम्यते जराय्वण्डपोतजास्त्रिविधा भवन्ति स्त्रियः पुमांसो नपुंसकानीति॥५१॥ __ अत्राह । चतुर्गतावपि संसारे किं व्यवस्थिता स्थितिरायुष उताकालमृत्युरप्यस्तीति । अत्रोच्यते । द्विविधान्यायूंषि । अपवर्तनीयानि अनपवर्तन यानि च । अनपवर्तनीयानि पुनर्द्विविधानि । सोपक्रमाणि निरुपक्रमाणि च । अपवर्तनीयानि तु नियतं सोपक्रमाणीति ॥ तत्र १ कषायसहवर्तित्वात्कषायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता । हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदा इति हास्यादयो नव । २-३ अ. ८ सू. १० ४ अ. ४ सू. ११,१२,१३,१७. ५ नपुंसकवेदनीयमबद्धत्वात् ।। ६ कारणान्तरान्निश्चितावधेः प्राक् यस्य आयुषः क्षयस्तदायुः अपवर्तनीयम् । ७ केनापि कारणेन हासमनामुवत् निश्चितकालावधि यदायुरुपभोग्यतां याति तदनपवर्तनीयमुच्यते ॥
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy