SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सभाष्यतस्वार्थाधिगमसूत्रेषु वा सङ्ख्यानाचार्यः करणलाघवार्थ गुणकारभागहाराभ्यां राशि छेदादेवापवर्तयति न च सङ्खयेयस्थार्थस्याभावो भवति तद्वदुपक्रमाभिहतो मरणसमुद्धातदुःखातः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति न चास्य फलाभाव इति ॥ किं चान्यत् । यथा वा धौतपटो जलाई एव संहतश्चिरेण शोषमुपयाति स एव च वितानितः सूर्यरश्मिवाय्वभिहतः क्षिप्रं शोषमुपयाति न च संहते तस्मिन्प्रभूतस्नेहागमो नापि वितानितेऽकृत्स्नशोषः तद्वद्यथोक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति । न च कृतपणाशाकृताभ्यागमाफल्यानि ॥ इति तत्त्वार्थाधिगमसूत्रेषु द्वितीयोऽध्यायः समाप्तः॥ १ गणिताचार्यः । गणितप्रक्रियायामाहितनैपुणः । २ करणानि गुणकारभागहारापवर्तनोद्वर्तनादीनि । तत्र यो लघुः करणोपायः स्वल्पफलस्तेन तत्फलमानयति गणिताभिज्ञत्वात् । तुल्येऽपि हि फलानयने गुणकारभागहारौ चिराय तत्फलं अभिनिवर्तयतः । स पुनर्गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाह राशिच्छेदादेवार्थाधिकादपवर्तयति, षण्णवत्यादिकमनपवर्तनाह पुनर्लघुकरणाभिशोऽपि न शक्नोत्येवापवर्तयितुमेकम् । पञ्चाशदुत्तरसहस्रादिकं गुणकारभागहारक्रममेवान प्रयोजयति । न च संख्येयार्थस्याभावो भवति । फलभूतस्य करणविशेषे सत्यपि प्रेप्सितफलाभेदमादर्शयति । ३ मरणसमुद्घातो नाम स्वशरीरकादात्मप्रदेशापकर्षो मूर्छानुगतश्चेतनाविमुक्त इवाव्यक्तप्रबोधलक्षणोऽस्तमितसकलबहिर्वति चेष्टाक्रियाविशेषः स एव चातिचिररूढमूलप्रदेशोत्खननरूपत्वाद्दःखं तेना” विषण्णः किंकर्तव्यताविमुखः ।। ___ ४ एतदुक्तं भवति । आजानान एव हि तदपवर्तनाकरणेन अपवर्तनाई कर्म अपवर्तयति । आहाररसादिविपरिणामवत् । किमर्थं पुनरपवर्तयति । फलोपभोगार्थमायुष्कर्मफलोपभोगाय । अनाभोगनिर्वर्तितेन वीर्यविशेषेणेति । न चास्यायुष्कर्मणः फलाभावो भवति । इयांस्तु विशेषः क्रमपरिभोगे बहुकालः । संवर्तितपरिभोगे स्वल्प इति । न पुनरभुक्तं तत्र किंचित्कर्म परिशटतीति ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy