SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८२ शेषा उत्तरार्धाधिपतय इति ॥ ३१ ॥ असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२ ॥ असुरेन्द्रयोस्तु 'दक्षिणार्धाधिपत्युत्तरार्धाधिपत्योः सागरोपममधिकं यथासंख्यं परा स्थितिर्भवति ।। ३२ ।। सौधर्मादिषु यथाक्रमम् ॥ ३३ ॥ सौधर्ममादिं कृत्वा यथाक्रममित ऊर्ध्वं परा स्थितिर्वक्ष्यते ॥३३॥ सागरोपमे ॥ ३४ ॥ सौधर्मे कल्पे देवानां परा स्थितिर्द्वे सागरोपमे इति ॥ ३४ ॥ अधिके च ॥ ३५ ॥ शाने द्वे एव सागरोपमे अधिके परा स्थितिर्भवति ।। ३५ ।। सप्त सनत्कुमारे ॥ ३६ ॥ ४-३८ सनत्कुमारे कल्पे सप्त सागरोपमानि परा स्थितिर्भवति ॥ ३६ ॥ विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च ॥ ३७ ॥ एभिर्विशेषादिभिरधिकानि सप्त माहेन्द्रादिषु परा स्थितिर्भवति । सप्तेति वर्तते । तद्यथा - माहेन्द्रे सप्त विशेषाधिकानि । ब्रह्मलोके त्रिभिरधिकानि सप्त, दशेत्यर्थः । लान्तके सप्तभिरधिकानि सप्त, चतुर्दशेत्यर्थः । महाशुक्रे दशभिरधिकानि सप्त सप्तदशेत्यर्थः । सहस्रारे एकादशभिरधिकानि सप्त अष्टादशेत्यर्थः आनतप्राणतयोस्त्रयोदशभिरधिकानि सप्त, विंशतिरित्यर्थः । आरणाच्युतयोः पञ्चदशभिरधिकानि सप्त, द्वाविंशतिरित्यर्थः ॥ ३७ ॥ 1 आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ॥ ३८ ॥ आरणाच्युतादूर्ध्वमेकैकेनाधिका स्थितिर्भवति नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च च । आरणाच्युते द्वाविंशतिग्रैवेयकेषु पृथगेकैकेनाधिका त्रयोविंशतिरित्यर्थः । एवमेकैकेनाधिका सर्वेषु नवसु यावत्सर्वेषामुपरि नवमे एकत्रिंशत् । सा विजयादिषु चतुर्ष्वप्येकेनाधिका द्वात्रिंशत् । साप्येकेनाधिका सर्वार्थसिद्धे त्वजघन्योत्कृष्टा त्रयस्त्रिंशदिति ॥ ३८ ॥ १. दक्षिणार्धाधिपतिः - चमरेन्द्रः । उत्तरार्धाधिपतिः बलीन्द्रः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy