SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् विजयादिषु द्विचरमाः ॥२७॥ विजयादिष्वनुत्तरेषु विमानेषु देवा द्विचरमा भवन्ति । द्विचरमा इति ततश्च्युताः परं द्विर्जनित्वा सिध्यन्तीति । सकृत्सर्वार्थसिद्धमहाविमानवासिनः' । शेषास्तु भजनीयाः ॥२७॥ अत्राह । उक्तं भवता जीवस्यौदयिकेषु भावेषु तिर्यग्योनिगतिरिति, तथा स्थितौ "तिर्यग्योनीनां च' इति । आस्रवेषु च "माया तैर्यग्योनस्य' इति । तत्के तिर्यग्योनय इति । अत्रोच्यते - औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २८ ॥ औपपातिकेभ्यश्च नारकदेवेभ्यो मनुष्येभ्यश्च यथोक्तेभ्यः शेषा एकेन्द्रियादयस्तिर्यग्योनयो भवन्ति ।। २८ ।। अत्राह । तिर्यग्योनिमनुष्याणां स्थितिरुक्ता । अथ देवानां का स्थितिरिति । अत्रोच्यते स्थितिः ॥ २९ ॥ स्थितिरित्यत ऊर्ध्व वक्ष्यते ॥ २९ ॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ३० ॥ भवनेषु तावद्भवनवासिनां दक्षिणार्धाधिपतीनां पल्योपममध्यर्धं परा स्थितिः । द्वयोर्द्वयोर्यथोक्तयोर्भवनवासीन्द्रयोः पूर्वो दक्षिणार्धाधिपतिः पर उत्तरार्धाधिपतिः ॥३०॥ शेषाणां पादोने ॥ ३१ ॥ शेषाणां भवनवासिष्वधिपतीनां द्वे पल्योपमे पादोने परा स्थितिः । के च अतिबहलतमःकायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति । यासां मध्येन प्रयान् देवोऽप्येकः संक्षोभमापोतेति । तत्र द्वयोर्द्वयोः कृष्णराज्योर्मध्यभाग एते भवन्ति । १. सर्वार्थसिद्धविमानवासिनस्तु . सकृजनित्वा मनुष्येषु सिद्धिमनुगच्छन्ति मुक्तिमासादयन्ति, सर्वे चानुत्तरोपपातिनः किल देवाः प्रतनुकर्माणो भवन्तीति । २. अ. २ सू. ६. ३. अ. ३ सू. १८. ४. अ. ६ सू. १७. ५. अ. ३ सू. २६.
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy