SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८० ......... ४-२६ 'प्राग्वेयकेभ्यः कल्पाः ॥ २४ ॥ प्राग्ग्रैवेयकेभ्यः कल्पा भवन्ति सौधर्मादय आरणाच्युतपर्यन्ता इत्यर्थः । अतोऽन्ये कल्पातीताः ।। अत्राह । किं देवाः सर्व एव सम्यग्दृष्टयो यद्भगवतां परमर्षीणामर्हतां जन्मादिषु प्रमुदिता भवन्ति इति । अत्रोच्यते । न सर्वे सम्यग्दृष्टयः किंतु सम्यग्दृष्टयः सद्धर्मबहुमानादेव तत्र प्रमुदिता भवन्त्यभिगच्छन्ति च । मिथ्यादृष्टयोऽपि च लोकचित्तानुरोधादिन्द्रानुवृत्त्या परस्परदर्शनात् पूर्वानुचरितमिति च प्रमोदं भजन्तेऽभिगच्छन्ति च । लोकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्मबहुमानात्संसारदुःखार्तानां च सत्त्वानामनुकम्पया भगवतां परमर्षीणामर्हता जन्मादिषु विशेषतः प्रमुदिताः भवन्ति । अभिनिष्क्रमणाय च कृतसंकल्पान्भगवतोऽभिगम्य प्रहृष्टमनसः स्तुवन्ति सभाजयन्ति चेति ॥ २४ ॥ ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥ ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु, नापि परतः । ब्रह्मलोकं परिवृत्त्याष्टासु दिक्षु अष्टविकल्पा भवन्ति ॥२५॥ .. तद्यथासारस्वतादित्यवन्यरुणगर्दतोयतुषिताव्याबाधमरुतोऽरिष्ठाश्च ॥ २६ ॥ एते सारस्वतादयोऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु "दिक्षु प्रदक्षिणं भवन्ति यथासङ्खयम् । तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः, इत्येवं शेषाः ॥ २६॥ १. भवनवासिनो (४-११), व्यन्तराः (४-१२), ज्योतिष्काः (४-१३), सौधर्मादयो द्वादश (४-२०)। २. (४-२०) सूत्रे नवग्रैवेयकादयो यथोक्ताः । ३. लौकान्तिकास्तु सर्वे सम्यग्दृष्टयोऽवश्यं चार्हचरणमूलपर्यन्तमायान्ति, अहंदादिसंवेगप्रशंसार्थमात्महितार्थं च । ४. "नवदेवनिकाया पन्नत्ता तंजहा- '१ सारस्सय २ माइचा ३ वण्ही ४ वरुणा य ५ गद्दतोया य । ६ तुसिया ७ अव्वाबाहा ८ अग्गिचा चेव ९ रिहा य॥ ॥१॥" इति स्था. ९ ठा. ६८४ । (स्था. ८ ठा. तु 'रिठा' इति नवमं नास्ति) संग्रहिण्यान्तर्वाच्यादिषु लोकान्तिकदेवानां नव निकाया उत्तमचरित्रे दश निकायाः कथितास्तत्र मतान्तरमिति ज्ञेयम् । ५. अत्र दिग्ग्रहणं सामान्येन दिग्विदिक् प्रतिपत्त्यर्थम् । ब्रह्मलोकाधोव्यवस्थितरिष्ठविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भूता
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy