________________
८३
तत्त्वार्थाधिगमसूत्रम्
अत्राह । मनुष्यतिर्यग्योनिजानां परापरे स्थिती व्याख्याते । अथौपपातिकानां किमेकैव स्थितिः परापरे न विद्यते इति । अत्रोच्यते
अपरा पल्योपममधिकं च ॥ ३९ ॥ सौधर्मादिष्वेव यथाक्रममपरा स्थितिः पल्योपममधिकं च । अपरा जघन्या निकृष्टेत्यर्थः । परा प्रकृष्टा उत्कृष्टेत्यनान्तरम् । तत्र सौधर्मेऽपरा स्थितिः पल्योपममैशाने पल्योपममधिकं च ।। ३९ ।।
सागरोपमे ॥ ४० ॥ सनत्कुमारेऽपरा स्थितिढे सागरोपमे ।। ४० ।।
अधिके च ॥ ४१ ॥ माहेन्द्रे जघन्या स्थितिरधिके द्वे सागरोपमे ।। ४१ ।।
परतः परतः पूर्वा पूर्वानन्तरा ॥ ४२ ॥ माहेन्द्रात्परतः पूर्वा परानन्तरा जघन्या स्थितिर्भवति । तद्यथा माहेन्द्रे परा स्थितिर्विशेषाधिकानि सप्त सागरोपमानि सा ब्रह्मलोके जघन्या भवति । ब्रह्मलोके दश सागरोपमानि परा स्थिति सा लान्तके जघन्या । एवमासर्वार्थसिद्धादिति । ('विजयादिषु चतुर्पु परा स्थितिस्त्रयस्त्रिंशत्सागरोपमानि सा त्वजघन्योत्कृष्टा सर्वार्थसिद्ध इति) ॥४२॥
नारकाणां च द्वितीयादिषु ॥ ४३ ॥ नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वा परा स्थितिरन्तरा परतः परतोऽपरा भवति । तद्यथा- रत्नप्रभायां नारकाणामेकं सागरोपमं परा स्थितिः सा जघन्या शर्कराप्रभायाम् । त्रीणि सागरोपमानि परा स्थितिः शर्कराप्रभायाम्, सा जघन्या वालुकाप्रभायामिति । एवं सर्वासु । तमःप्रभायां द्वाविंशतिः सागरोपमानि परा स्थितिः सा जघन्या महातमःप्रभायामिति ॥ ४३ ॥
दश वर्षसहस्राणि प्रथमायाम् ॥ ४४ ॥ प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्या स्थितिः ॥ ४४ ॥
भवनेषु च ॥ ४५ ॥
१. अर्थासंगतः पाठः ।