________________
८४
भवनवासिनां च दश वर्षसहस्राणि जघन्या स्थितिः ॥४५॥ .
व्यन्तराणां च ॥ ४६ ॥ व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः ॥४६।।
परा पल्योपमम् ॥ ४७ ।। व्यन्तराणां परा स्थितिः पल्योपमं भवति ॥४७॥
__ ज्योतिष्काणामधिकम् ॥ ४८ ॥ ज्योतिष्काणां देवानामधिकं पल्योपमं परा स्थितिर्भवति ॥४८॥
ग्रहाणामेकम् ॥ ४९ ॥ ग्रहाणामेकं पल्योपमं स्थितिर्भवति ॥४९॥
नक्षत्राणामर्धम् ॥ ५० ॥ नक्षत्राणां देवानां पल्योपमार्धं परा स्थितिर्भवति ॥५०॥
तारकाणां चतुर्भागः ॥ ५१ ॥ तारकाणां च पल्योपमचतुर्भागः परा स्थितिः ॥५१॥
जघन्या त्वष्टभागः ॥ ५२ ॥ तारकाणां तु जघन्या स्थितिः पल्योपमाष्टभागः ॥५२॥
___चतुर्भागः शेषाणाम् ॥ ५३ ॥ तारकाभ्यः शेषाणां ज्योतिष्काणां चतुर्भागः पल्योपमस्यापरा स्थितिः ॥५३॥ इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेते चतुर्थोऽध्यायः ॥४॥